2023-09-01 04:32:08 by jayusudindra

This page has been fully proofread once and needs a second look.

अथवा किं प्रार्थनया । महतां शापेन जगत्यस्मिन्को वा नष्टः ।
इन्द्रद्युम्नस्य पुंनागत्वं नलकूबरस्यार्जुनत्वं नहुषस्य चक्रित्वमिव ममापि
देवस्य शापः कामप्युन्नतिं नयेदिति ।
ततश्च श्रीनिवासोऽपि श्लेषकाव्यबन्ध इव क्षणं कठिनभावो
द्राक्षामधुरां मधुराधिपो वाचमुच्चारयांचकार—भो भो महाराज चोलेन्द्र,
रोषाधीनचेतसा वृथा शप्तोऽस्मि । धिग्धक्क्रोधाधीनचेतसं नरम् । पश्य
पश्य, कश्चन क्रोधनः स हि पुरस्कृतक्षय एव भवति । अस्त्वेतत् ।
कंचित्कालं सफलितमद्वचनो भव । अचिरादेवैतस्मान्मोक्षो मोक्षश्च
ते भविष्यतीति । ततः परं यद्वृत्तं तद्भवती जानात्येवेत्यभिधाय
स्वोचितकार्याय तद्दत्तहस्तावलम्बोऽत्रिरिवोदतिष्ठत् ।
इतश्च श्रीनिवासोऽपि वनादागत्य सह बकुलमालया अहो निष्कारणा
मैत्री निर्व्याजा प्रीतिः लोकोत्तरं सौजन्यं निरपेक्ष उपकारक्रम इत्यादिव-
राहगतालापभूयिष्ठं व्याहरन्नेव-
ललितकमलशोभे पर्वतेन्द्रस्य पादे
गमयति कृतसक्तिर्वत्सराणां शतानि ।
नरमृगपतिसूरेस्तादृशे वेङ्कटेशः
कविरिव विगतान्यव्यापृतिः श्रीनिवासः ॥ ३० ॥
 
इति श्रीमद्वेङ्कटेश कवेः कृतौ श्रीनिवासविलासे पूर्वभागे प्रथम उच्वासः ।
 
चैकदृष्टिः' इत्यमराधिकपाठः । अथवेति । पुरुषश्रेष्ठत्वमिति चमत्कारः । पुरु-
षगजत्वमिति तत्त्वार्थः । अर्जुनः पार्थः । पक्षे वृक्षभेदः । चक्री नारायणः । पक्षे
सर्पः । भो भो इति । क्रोधनः क्षयश्च वत्सरभेदः । कोपनः नाश इति तत्त्वार्थः ।
तया दत्तो हस्तावलम्बो यस्य सः । पक्षे स चासौ दत्तः ऋषिभेदश्च स एव
हस्तावलम्बो यस्य । नारायणावतारो दत्तोऽत्रिपुत्र इति भागवतम् । ललितेति ।
कमलो मृगः । पादः प्रत्यन्तपर्वतः ॥ इति श्रीधरणीधरविरचितायां श्री निवास-
विलासचम्पूटीकायां प्रथम उच्छ्वासः ॥