2023-09-01 04:26:28 by jayusudindra
This page has been fully proofread once and needs a second look.
कुठाराहतिरेकस्य गोपस्यान्यस्य पञ्चता ।
पश्य पश्य वरारोहे तदन्यस्य पिशाचता ॥ २७ ॥
चक्रिणा श्रीधरेणायं वल्मीकस्थानवासिना ।
तेन चोलनरेन्द्रोऽपि क्षणादुद्वेजितः प्रिये ॥ २८ ॥
अथ तस्मिन्मोहमापन्ने भर्ता जीवनदानेनापि सत्कार्य इति जल-
सेकादिना कृततत्प्रबोधप्रयत्ने कस्मिंश्चिन्मत्रिणि देव, प्रकृत्या कया धुत-
नयोऽयं नृसिंहेन त्वया दण्ड्य इति चित्रसमुद्रोदरमज्जनं चेतसः, दाह-
शक्तिश्चन्द्रिकायामपि दृष्टा भवेत् कठिनमपि हैयङ्गवीनमिति सचे-
लाञ्चलप्रसारं प्रणमति श्रीनिवासेऽपि किंचिन्मन्दीभवत्कोपावेशे सक-
क्षास्फालनं नृत्यति गगनतलावलम्बिनि कलहदर्शननिर्निद्रे मुनीन्द्रे
अयमस्याभिनवपिशाचस्य चोलदेवस्य वासार्थं क्लृप्त इति प्राक्स्थिताक्र-
न्दमुद्भूतकुटुम्बकं जीर्णशाल्मलितरोर्निर्वासयति वेतालभृत्यगणे राजा
चोलोऽपि कथमप्युद्बुद्धः साञ्जलिबन्धं वाचमुवाच ।
अम्बाविमुखो मीष्मश्चिरजीव्यप्रमदकः प्रजारहितः ।
पात्रं नासीत्किं ते करुणायाः किं तथाविधो नाहम् ॥ २९ ॥
न्तमाकाशमनन्ता भू देवी । कुठारेति । हेतुकार्ययोर्भिन्नाधिकरणत्वमिति चित्र-
तापादनप्रकारः । तत्त्वार्थस्तु – एको गोपः कृष्णः । अन्यो गोपो धेनुपः । तदन्यो
गोपश्चोलभूपः । अनेन चोलस्य पिशाचत्वमित्युक्तं भवति । अनेनैवशब्दार्थोऽपि
विवृतः । चक्रिणेति । चक्री सर्प इति चमत्कारः । नारायण इति तत्त्वार्थः ।
श्रीर्विषम् । पक्षे रमा । 'नरेन्द्रो वार्तिके राज्ञि विषवैद्येऽपि ' इति विश्वः । अथेति ।
'जीवनं वर्तने नीरप्राणयोः' इति सुधा । कयाधुः प्रह्लादमाता । नृसिंहो नाराय-
णावतारभेद इति चमत्कारः । तत्त्वार्थस्तु कया प्रकृत्या स्वभावेन धुतनयः
कम्पितनीतिः । न कयापीत्यर्थः । मनुष्यश्रेष्ठः । हैयङ्गवीनं नवनीतम् । अम्बेति।
क्रूरो माता काकसमानः संतोषरहितः प्रकर्षेण जाराणां हित इति निन्दा । शान्त-
नवः काचन वनिता दीर्घजीवी स्त्रीरहितः पुत्ररहित इति तत्त्वार्थः । अम्बाभि-
वाचा काचन भीष्मं चक्रमे स तु तां नाङ्गीचकारेति श्रीभागवतम् । 'चिरजीवी