2023-09-01 04:20:03 by jayusudindra
This page has been fully proofread once and needs a second look.
त्वेतत् । कोऽयमिति जानामि । किमयं प्रतापनिधिः सप्तार्चिः । नह्यय-
मकृशानुभावं धत्ते । स्निग्धच्छायः सप्ताश्वो भवेत् । अहह निशोल्लस-
दम्बरपरिष्कृतोऽयम् । भवतु यो वा को वा । कथमीदृशस्यैतादृश्यवस्था ।
किमिति संभाषयामि । यदि तमेव पृच्छामि नायं प्रज्ञावतां पन्थाः ।
अथवानालोकितकेन यथागतं पृच्छामि तदितरा का निस्त्रिंशता । अ-
थवा मदीयगोक्षीरमन्यायेन पिबतस्तवोचितमेव जातमिति भणामि ।
तद्वीथीपिशाचस्य गृहानयनप्रकारः । इत्येवं विविधप्रकारमालोच्य कथं
कथमपि मधुराधिपोऽयमिति ज्ञात्वा निश्चित्य प्राप्तकालप्रतिक्रियेयमिति
यावद्दण्डवत्प्रणन्तुमिच्छति तावदेव तं दृष्ट्वा देवोऽपि प्रकोपस्फुरदधर-
विर्निगच्छद्रूक्षाक्षराणि श्रावयांचकार । 'रे रे चोलेन्द्र, साधु रे साध्वनु-
ष्ठितं भवता । नायं तवापराधः । पापीयान् श्रीमदस्त्वामुत्तरलयति । प्राय-
स्त्वद्विधा बहवो महतामवज्ञानात्स्वानुरूपं फलमापुः । तथाहि । निमि-
मदनयोर्विदेहभावः । चित्रकेतोर्नहुषस्य चाहित्वम् । जयविजयनलकू-
बरादेः पलाशित्वम् । त्रिशङ्कोरिन्द्रद्युम्नस्य च मातङ्गता । अतस्त्वमप्येवं
भवे'ति । तच्छ्रुत्वा स भूभृत्तद्वाग्वज्रेण ताडितो निःसंज्ञो निपपात ।
देवि, वलग्नतुच्छीकृतानन्तेऽनन्ते, चित्रमेतत् ।
हैमः । कोऽयमिति । प्रकृष्टतापनिधिः । 'कृशानुः पावकोऽनलः' इत्यमरः ।
पक्षे शौर्यनिधिः । अकृशश्चासावनुभावः प्रभावश्च । 'सप्ताश्वहरिदश्वोष्णरश्मयः'
इत्यमरः । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । 'अहहेत्य-
द्भुते खेदे' इति च । 'निशा निशीथिनी रात्रिः' इति च । 'निशाह्वा काञ्चनी
पीता हरिद्रा' इति च । अम्बरं व्योम वसनं च । निस्त्रिंशो नृशंसः । 'हीनसं-
बोधने तु रे' इत्यमरः । निमिमदनयोरिति । निमी राजभेदः । तस्य वसि-
ठस्यापमानाद्देहाभावत्वं मदनस्य रुद्रावमानादनङ्गत्वमिति विवेकः । अग्रेऽप्येव-
मेव । इयं सर्वापि कथा भागवताज्ज्ञेया । 'अहिर्वृत्रासुरे सर्पे' इति विश्वः ।
'पलाशी वृक्षरक्षसोः' इति विश्वमेदिन्यौ । मातङ्गो गजः । पक्षे चण्डालः । अन-