2023-09-01 04:12:12 by jayusudindra

This page has been fully proofread once and needs a second look.

महिषीवर्गे पुत्रार्थमचीक्लृपत् । सा च गौश्चिरंतनेन गोपेन पाल्यमाना-
प्यत्युन्नतं भूभृच्चक्रवर्तिकुमारं शेषाचलमाश्रित्य पांसुलेवाक्षीरा वनमायाति
स्म । अन्यदा तु राजदण्डभीत्या वल्मीके क्षरत्क्षीरामाराद्विलोक्य
तां धेनुं परशुना जामदग्न्य इव क्षत्रियततिमखण्डयत्स गोपालः । सापि
कुहनाधेनुर्योगिराज इव कालजवं तं कुठारप्रहारं यावद्विफलयति ताव-
देव कल्याणी, किं कथयामि वत्स, वासुदेवस्यौदुम्बरक्षीरार्ककार्पासग-
वेषणदशा संवृत्ता । तदप्याकर्णय यत्परस्ताद्वृत्तमिति ।
ततश्च तव गेयमिव तालप्रमाणोज्ज्वलं रक्तं पश्यतो गोपस्य सावस्था
जाता या मुचुकुन्दखापभङ्गकारिणो यवनस्य, अथवा सरससाहित्यनिन्द-
कस्य दुष्कवेः ।
अथ ज्ञातवृत्तान्तश्चोल आगत्यालोचयामास । अहो कोऽयमद्भुतद-
र्शन: सुप्रतीकोऽपि सार्वभौम इव दृश्यते । कल्पोऽपि पुंनाग इव रा-
जते । सुग्रीवोऽपि बलाहकस्यानुकरोति । नीलोऽपि नलसुन्दरः । तिष्ठ-
 
गाम् । सैरिभी समूहः । पुत्राणां क्षीरपानार्थमिति तत्त्वार्थः । चन्द्रः, नक्षत्रभेदः,
राजपत्नीगणः, सुतोत्पत्त्यर्थमिति चमत्कारः । 'गौस्तारा कण्ठरोगश्च रोहिणी' इति
रत्नमाला । महिषी नृपपत्न्यां च सैरिभ्यामोषधीभिदि' इति विश्वः । सां
चेति धेनुः । धेनुपेन । मेरुपुत्रमिति तत्त्वार्थः । चमत्कारस्तु भूमिः, राजा, महाराज-
पुत्रमिति । अक्षीरा अदुग्धा । पक्षे अक्षिणी ईरयति प्रेरयतीति तथोक्ता । 'गौर्नाके
वृषभे चन्द्रे वाग्भूदिग्धेनुषु स्त्रियाम् । द्वयोस्तु धृष्टिदृग्बाण- स्वर्णवज्राम्बुलोमसु' इति
रत्नमाला । 'स्मातीते' इत्यमरः । अन्यदा त्विति । कालजवं मृत्युवेगम् ।
ततश्चेति । 'वृक्षभेदः स्मृतस्तालस्तालः करतलध्वनिः' इति ध्वनिमञ्जरी। अहो
कोऽयमिति । सुप्रतीकः शुभाङ्गो दिग्गजश्व । सार्वभौमो राजा दिग्गजश्च ।
कल्पपुंनागौ वृक्षमेदौ । विभुः पुरुषश्रेष्ठश्च । 'न्याय्ये तुल्ये प्रभौ काले देववृक्षे
च कल्पवाकू' इति ध्वनिमञ्जरी । 'अश्वास्तु शैब्यसुग्रीवमेधपुष्पबलाहकाः' इति
श्रीभागवतम् । शोभनकण्ठो मेघश्च । नीलनलौ वानरभेदौ । कृष्णवर्णो राजभे-
दश्च । 'नीलो वर्षे मणौ शैले निधिवानरभेदयोः । नीलौषध्यां लाञ्छने च' इति