2023-09-01 04:03:13 by jayusudindra
This page has been fully proofread once and needs a second look.
श्रीमत्पन्नगशैलराजवसतेः क्रोडस्य लक्ष्मीपते-
र्नादब्रह्ममयो ललास नितरां मध्याहभेरीरवः ॥ २६ ॥
ततश्च यथास्थानं सबकुलां धरां स्वीकृत्य प्राप्तुः ।
अथ विश्वंभरया पृष्टतद्वृत्तान्तो वराहः कथयामास । शृणु देवि
सरसे रसे, सावधानम् । स्पर्शनानन्दभाक् अचलराजसंपद्धरः भूभृत्कर-
प्रसारमहितः अखण्डचक्रश्रियं दधानः तव कुचाभोग इव न्यवसच्चोल-
मण्डलं चोलो नाम महीपतिः ।
यस्मिन्विलसति लोचनलोभनीयरम्याकृतौ सन्मालापरिगते सुवृत्ते
अत्युन्नतधर्मशालि तव कुचमण्डल इव राजनि अहमिवानिमिषश्रियं
दधानः सात्त्विकभावमापन्नः सकामः सकलोऽपि लोकः । एवं स्थिते क-
दाचित्कापि लसच्छृङ्गारोचिताकारा सुरभिसुमनोहारिणी गोपालबालिका-
स्वसमानां कामपि गामानीय विक्रीतवती । स राजा तां रोहिणीं सत्यपि
स्वरूपार्थे मयट् । ततश्चेति । श्रीनिवासपक्षे बकुलमालानामिका स्त्री तथा
सहितां धात्रीं वासार्थं क्षितिम् । वराहपक्षे तन्नामकपुष्पमालासहितां धरादेवीम् ।
शुण्विति । 'स्पर्शनो मारुते स्पर्शदानयोः स्पर्शनम्' इति विश्वः । अचला
या राजसंपत् । पक्षे अचलराजो मेरुः । राजसु राजप्राह्यद्रव्यप्रसरणेन । पक्षे
वराहपाणिप्रसारेण । चक्रं राष्ट्रम् । पक्षे पुमांश्चक्रवाकः । चोलो देशभेदः ।
पक्षे कूर्पासः । यस्मिन्निति । 'सन्साधौ धीरशस्तयोः । मान्ये सत्ये विद्यमाने
त्रिषु' इति सुधा । 'मालापङ्क्तौ पुष्पादिदामनि' इति भास्करः । अहमिवेति ।
देवसंपदम् । पक्षे निर्गतनिमेषसंपदम् । अनेनाधिकासक्तिरता । सात्त्विकभावः
सत्त्वगुणसंबन्धिधर्मः । पक्षे स्तम्भप्रलयरोमाञ्चादिः । कदाचिदिति । लस-
च्छृङ्गारेति उचिताकारेति पदद्वयम् । पक्षे लसच्छृङ्गेति रोचिताकारेति पदद्वयम्।
वसन्तपुष्पमालया हारवती । पक्षे धेनुषु मनोहराम् । 'सुरभिर्गवि च स्त्रियाम् ।
वसन्तचैत्रयोः पुंसि त्रिषु सौम्यसुगन्धयोः' इति रत्नमाला । स राजेति । भूपः ।