2023-09-01 03:55:32 by jayusudindra

This page has been fully proofread once and needs a second look.

किं च । देव, अत्र कंचित्कालं वस्तुमिच्छामि तद्भवतो भूमिं कामये
इत्यकथयत् ।
 
तच्छ्रुत्वा किमयं प्रभोर्वराहदेवस्य महिषीं विश्वंभरादेवीं स्वीकर्तुमि-
च्छतीति किंचित्कोपशोणितेक्षणे पोत्रिकदम्बे विलज्जमानायां धरादेव्यां
वराहदेवेऽपि दर्शंदर्शं देवीवदनं दरदर्शितमन्दहासे " श्रीनिवास, मन्म-
नीषितमप्येतन्न केवलमेकामेव घात्रीं किं त्विमां बकुलमालाभिधानां
घात्रीं च स्वीकुरु कुरुकुलप्रणयिन्, आदौ भक्तैर्मद्दर्शनादिमानः कार्यः ।
वत्स, एतदपि जानामि नावयोरन्तरमिति तथापि कालः कलिरागतः ।
'त्वमपि स्त्रोके जले न मज्जसि तदपि ज्ञातपूर्वमेव । यन्मात्स्ये वामने
चाप्यवतारे स्वल्पं स्थानं प्राप्याक्रान्तवानसि सकलमपि भुवनतलम् ।
"नोद्धाट्यं मर्म परेषाम् । अथ वा किं नः कार्यं जरठानां तथापि मर्यादा
कापि वरम्" इति वदति 'यदाज्ञापयन्त्यार्यचरणाः' इति दर्शितविनये
वासुदेवेऽतिक्रामति घटिकाद्वये वियन्मध्यमारूढे तमः कुलचित्रभानौ
चित्रभानौ
जाताकस्मिकमेघरावमतिभिः संभावितः केकिभि-
र्निर्घातभ्रमगाढलग्नवनितैरानन्दितः किं नरैः ।
 
गुणा । दृष्टा तनुः श्रुता वाणीति विवेकः । किंचेति । भूदेवीमितिः सर्वेषां,
भूरिति श्रीनिवासस्याभिप्रायः । तच्छ्रुत्वेति । 'धात्री स्यादुपमातापि क्षितिरप्या-
मलक्यपि ' इत्यमरः । स्तोके जले न मज्जसीति लोकोक्तिः । मत्स्यावतारे जलतलं
वामनावतारे लोकतलमिति विवेकः । 'भुवनं लोकतोययोः' इति ध्वनिमञ्जरी ।
'स्वरूपानूर्ध्वयोस्तलम्' इति जगद्धरः । अनेन मत्स्यादीनामैक्यमुक्तं भवति ।
'जीवस्थानं भवेन्मर्म' इति हलायुधः । 'उत्तमानां स्वरूपं तु पादशब्देन भण्यते' ।
'म<flag></flag>प्रये वरं क्लीबे केचिदाहुस्तदव्ययम्' इति सुधा । जाताकस्मिकेति ।