2023-08-31 10:48:44 by jayusudindra
This page has been fully proofread once and needs a second look.
धृतराष्ट्रश्च । देवकीनाशस्पृहास्थानं कंसो युधिष्टिरश्च । सुबलाङ्गप्रणयी
अनिरुद्धः कर्णश्च । तोषितसाम्बः प्रद्युम्नो गाण्डीवधन्वा च । उल्लसद-
निरुद्धकामो बलभद्रो दुर्योधनश्च । स्वगुणश्रवणतोषितकर्ण उद्धवः शकु-
निश्च । सदानपगतसत्प्रीतिः कृतवर्मा भीमसेनश्च ।
अद्य मेऽभूद्वराहश्रीः श्रीनिवास त्वदीक्षणात् ।
बहुना किं त्वदाश्लेषैर्धन्या क्रोडस्थितिश्च मे ॥ २४ ॥
इति बद्धालापः क्व भवानित्यादि पूर्वोक्तमेव स्तब्धतारं चालितमौलि
नासाग्रस्थापिताङ्गुलिकमाम्रेडयन् तेनापि क्वचिन्मौनमुद्रया क्वचिदन्तर्व्य-
थापिशुनशुष्कहासेन क्वचित्कण्ठरवेणापि नरकवधवर्जं स्ववृत्तस्य ख्या-
पयित्रा लक्ष्मीनेत्रा सह कस्मिंश्चित्प्रदेशे क्षणमासांचक्रे ।
अथ श्रीनिवासोऽपि विनयबहुल्या तद्वाचाभिनन्दितो भगवन्माया -
दंष्ट्रिन्,
सरसा विशदा क्रोडीकृतसारगुणा तनुश्च वाणी च ।
नानार्थाय प्रभवति कस्य न दृष्टा श्रुता वा ते ॥ २५ ॥
गेहेऽपि कथितं कुलम्' इति सुधा । देवेति संबोधनम् । कीनाशाः कर्षकाः ।
'कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु' इत्यमरः । शोभनो बलो बलदेवः ।
अङ्गजः प्रद्युम्नः । पक्षे सुबलराजपुत्रः शकुनिः । 'अङ्गजो मन्मथे पुत्रे' इति
रत्नमाला । साम्बो जाम्बवतीसुतः । पक्षे शिवः । अनिरुद्धकामौ यादवभेदौ ।
पक्षे निरर्गलाभिलाषः । 'इच्छामनोभवौ कामौ' इत्यमरः । दानपोऽक्रूरस्तद्गत-
सत्प्रीत्या सहितः । पक्षे सदेति भिन्नं पदम् । अनपगता सत्प्रीतिर्यस्य । भीमोs
च्छिन्नभक्त इति माध्वराद्धान्तः । वरं च तदहश्च वराहस्वस्य श्रीः । क्रोडं भुजा-
न्तरमिति स्तुतिप्रकारः । किटिसंपदिति दैवाद्विद्यमान कथनपरोऽप्यर्थः । नरका-
सुरस्य वराहपुत्रत्वात्तद्वघवर्जमित्युक्तम् । नेत्रा नियामकेन । सरसेति । शरी-
रपक्षे भूसहिता । वाणीपक्षे शृङ्गारादिरसयुक्ता । 'विशदः पाण्डुरे व्यक्ते' इति
हैमः । वराहत्वेन संपद्यमाना सारगुणा चेति कर्मधारयः । पक्षे कवलीकृतश्रेष्ठ-