2023-08-31 10:42:02 by jayusudindra

This page has been fully proofread once and needs a second look.

कृतिः क्षीरस्य मणेरकाठिन्यं निधुवनस्यावसानं लक्ष्म्या अचाञ्चल्यं विदु-
षाममात्सर्यं तपसो निष्कामता मैत्र्या निर्व्याजता स्त्रीणां योग्यसमागमः
सुकवेः श्लेषकाव्यरचनावैदग्ध्यं सकलजनश्लाघनीया भवतीति निश्चित्य
यावत्तथा कर्तुमिच्छति तावद्वराहदेवोऽपि दूरान्निरीक्ष्य हंहो पुरत एव
श्रीनिवास इव लक्ष्यते । अये अधररसविनिर्जितनवसुधे वसुधे, त्वमपि
विचारय । तव कुचाभोगेनेव चक्रहृद्येन करेण चन्द्राचलसौन्दर्यहरेण मुखेन
सरलतामनोज्ञेन चरितेन मदाश्लिष्टेन लोचनयुगलेन सर्वभूभृद्दर्पहारकेण
प्रतापेन राजमानो राजमानहारिवदने वद नेता तवायं श्रियो न वेति सभु-
जाचालनं कुचधिक्कृतगोत्रया गोत्रया सह संलपन् फुल्लपङ्कजनयनो द्रुतमा-
गत्य पादयोर्नमन्तं खेन समं तं वत्स, किमेतत् क्व भवान् क्वायं पन्नगाद्रिः
क्वागमनक्रमः क्व दर्शनम् । अयं परीपाकः प्राचीनपुण्यस्य । इदं फलं तप-
स्तरोः । इयं सूचना भाविकल्याणप्राप्तेः । सर्वथा नमोऽस्तु भगवतेऽत -
र्कितघटनापटवे भागधेयायेति व्याहरन् हरन्निव मानसं ध्यानसंगत इव
किंचित्स्थित्वा वीरलक्ष्मीनस्वक्षतायितहिरण्याक्षगदाघातकिणाङ्के वसुमती -
कठिनतरकुचयुगलसंघर्षमसृणिते भुजान्तरे क्षणं कृत्वा वत्स, दिष्ट्या तादृ-
शमहावीरकदम्बकालरात्रिकल्पाद्भारतसमराद्वत्साया इन्दिरादेव्याः सौभा-
ग्यादेवोर्वरितं जानामि । भवतु तावत् । कथयैतत् – कञ्चित्कुशली
यादवेषु कौरवेषु च सुराजन्यमार्गप्रवृत्तेष्वन्धककुलशिखामणिरुग्रसेनो
 
चेत्यानन्दे' इत्यमरः । 'सुरतक्रीडा निधुवनमायोजनमाहुरर्थविदः' इति हारावली ।
तव कुचाभोगेनेवेति । चन्द्राचलः कनकाद्रिः । सरलता सारल्यम् । पक्षे
हारलता । मदो गर्वो हर्षो वा । पक्षे मयालिङ्गितः । राजा चन्द्रः । श्रियो नेता
लक्ष्मीनायकः । गोत्रा भूमिः । सुरापानेन जातं यज्जन्यं युद्धम् । वारुणीं पीत्वा-
न्योन्यकलहेन यादवा भृता इति पुराणम् । पक्षे राजन्या राजानस्तेषां मार्गः
.'युद्धे चाप्यपलायनम्' इत्यादिरूपः । अन्धका यादवभेदाः । 'सजातीयगणे गोत्रे