2023-08-31 10:33:29 by jayusudindra

This page has been fully proofread once and needs a second look.

च । अयं वृक्षोऽपि कुटुम्बीव सार्थकितसुतरुतस्तोषयति द्विजाश्रयश्च ।
इयं कल्याणी गगनगङ्गा निवसत्यविदूरे सखीवानुकूलितकमला धरा-
भियोगहृद्या च । एते पक्षिणोऽपि ऋषिगणा इव पुराणागमप्रणयिनः
स्वेदमपनयन्ति सकलकलाश्च । एष भगवान् क्रोडरूपी हरिरत्रैव नि-
वसति । नूनमयं कलितधराधररुचिरेनां महीं क्षणमपि न विमुञ्चति ।
इत्येवमालोच्य वासमकरोत् ।
 
ततश्च गतेषु केषुचिद्दिवसेषु कदाचिद्वामलूरविवरान्निर्गत्य क्वचिद्व-
नोद्देशे यास्यन् क्रोधजातितया नारायणावतारतया च भूदारं जङ्गममिव
रजताद्रिं मूर्तिमन्तमिव रौद्ररसं जनकमिव शेषाचलस्य घोरघृष्यद्धरट्टक-
सपत्नेन कण्ठारावेण हसन्तमिव पुष्करावर्तं स्मरन्तमिवाद्यापि हिरण्या-
क्षयुद्धसंरम्भस्य भगवन्तं कुहनावराहमद्राक्षीत् ।
 
तदनु अनिमिषलोचनलोभनीयश्रीर्लसत्क्रोडाकृतिर्गौरपयोधरराजमान-
दिव्यकान्तिरचलानन्दहेतुरयं जगत्स्रष्टुर्नासाविवराल्लब्धजन्मा स्तब्धरोमा
इयं देवी धरा च । भवतु । दिष्ट्या दृष्टिमार्गमगमदेतन्मिथुनम् । तदेत-
त्प्रणामविषयीकरोमि । इयं सरलता मद्गुणानां सेयमम्लानता पुष्पाणामवि-
 
तमया सह सुप्तं सुप्तं' इति चतुराणां समयः । प्राचुर्यार्थे मयद् । सुतरुता शोभन
क्षत्वम् । पक्षे सुतानां रुतं ध्वनिः । कमलं जलम् । धरः पर्वतः । स्त्री श्रीभूदेवी च ।
पुराणागमः । अनभिनववृक्षः। 'कोलाहलः कलकलः' इत्यमरः । पक्षे भागवतादि
पुराणम् । पञ्चरात्रादय आगमाः । कला विद्या । धराधरः पर्वत इति तत्त्वार्थः ।
भूदेव्यधरोष्ठस्वाद इति चमत्कारः । 'वामलूरश्च नाकुश्च वल्मीकं पुंनपुंसकम्' इत्य-
मरः । घरट्टं धान्यपिष्टीकरणसाधनभेदः । सपत्नः समानः । पुष्करावर्तो भेधभेदः ।
तदन्विति । 'सुरमत्स्यावनिमिषौ' इत्यमरः । 'न ना क्रोडं भुज़ान्तरम्' इति च ।
'अचलानन्ता रसा विश्वंभरा स्थिरा' इति च । पक्षे स्थिरानन्दः । 'स्तब्धरोमा
क्रोडो भूदारः' इत्यमरः । भवत्विति । मिथुनं युग्मम् । 'दिष्ट्या समुपजोषं