2023-08-31 10:24:02 by jayusudindra
This page has been fully proofread once and needs a second look.
लमिव पुण्डरीकच्छायानिषण्णकलहंसं कालियनागमिव कृष्णवेणीसमं
कलशपारावारमिव जलैकदेशसुखसुप्तचक्रिणं जनितपद्मं च दृष्टमातङ्ग-
कुलविहारमपि शुद्धं सपङ्कजातमपि निष्पङ्कजातं जडाशयमपि नवरसो-
ल्लसितं स्वामिपुष्करिणीति विश्वविख्यातं कमपि कासारमपश्यत् ।
अथ तदवलोकनाद्विगतपरिभ्रमणायासः क्षणं विश्रम्य हंस इव के-
वलं क्षीरमयमाहारमुपकल्प्य माध्व इव सद्वातागममभिनन्दंस्तत्तीर एव
नक्षत्रगणस्येव संबद्धमूलस्य शिवचन्द्रस्येव सदाबालस्य भागवतस्येव वि-
लसदनेकस्कन्धस्य सुजनस्येव सफलजन्मनः गरुडस्येव सुपर्णस्य चिञ्चा-
तरोरधःप्रदेशे पातालगतागतमार्गमिव वसुंधरानाभिमिव किमपि वल्मी-
कमवालोकयत् । अचिन्तयच्च - इदमस्माकमावासस्थली भवेत् । यतो
निकट एवेयं पुष्करिणी घनरसमयी वनितेव सुखयति सफलितस्वापा
भ्रातरि पुंसि स्यात्सश्रीके चाभिषेयवत् ॥' इति सुधा । 'पुण्डरीकं सितच्छन्त्रे
कुष्ठमेदे सिताम्बुजे । ना त्वग्रे राजिले व्याघ्रे दिग्गजे... जरज्वरे ॥' इति रत्न -
माला । 'कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे' इति सुधा । कृष्णवेणी नदीभेदः ।
'स्वामिपुष्करिणी चैव चन्द्रपुष्करिणी तथा । कृष्णवेणी समा' इति नदीतारतम्ये ।
पक्षे कृष्णा या वेणी कचरचनाभेदः । अमृतकलशोत्पत्ति हेतुत्वात्कलशपारावारः
क्षीराब्धिः । 'चक्री कोके कुलालेऽहौ वैकुण्ठे चक्रवर्तिनि' इति हैमः । 'पद्मोऽस्त्री
पद्मके व्यूहनिधिसंख्यान्तरेऽम्बुजे । ना नागे स्त्री पुञ्जिका श्रीचार्वाटीपन्नगीषु च ॥'
इति सुधा । 'मातङ्गः श्वपचे गजे' इति मेदिनी । पङ्कजातं कमलं कर्दमसमूहश्चेति
परिहारः । 'आशयः स्यादभिप्राये मानसाधारयोरपि' इति सुधा । डलयोरभेदः ।
अथेति । 'क्षीरं दुग्घे जले' इति सुधा । वातागमो मध्वशास्त्रम् । तत्तीर एवेति ।
'आदौ शिफायां नक्षत्रे मूलं कुञ्जसमीपयोः' इति लिङ्गाभट्टः । आवालं आलवा-
लम् । पक्षे बाल एककलात्मकः । स्कन्धाः स्थूलशाखाः । पक्षे विच्छित्तिविशेषाः ।
इदमस्माकमिति । घनरसो निरन्तरप्रीतिः । अपां समूह आपं शोभनं च
तदापं च स्वापम् । पक्षे 'मेघपुष्पं घनरसः' इत्यमरः । स्वापः स्वपनम् । 'प्रिय-