2023-08-31 07:03:28 by jayusudindra

This page has been fully proofread once and needs a second look.

इतः पुरस्ताद्भारतसमर इव धनंजयोल्लासो दृश्यते । तथा हि विप-
क्षीभूय शकुनिर्नश्यति । द्रोणोऽपि मृदितपक्षः । भीष्मोऽयमुलूकोऽपि
ग्रस्तः । अत्रात्र पलायितं शल्येन । कर्णोऽपि दग्धः । एकाकिना धार्त-
राष्ट्रणोत्पतितम् । अत्रात्र शरासनानां भङ्गः । शिलीमुखाश्च्युतलक्ष्याः
संचरन्ति । सर्व एते भूभृतं खेदयन्ति ।
 
क्रीडत्कीरां नीलतमालां वनलक्ष्मीं
शाक्राश्माढ्ये सानुनि जातां गजवृन्दैः ।
दृष्ट्वाक्रान्तां विस्तृतपक्षो घनबुद्ध्या
नृत्यति पक्षी मत्तमयूराभिध एषः ॥ २१ ॥
 
किंबहुना ।
फालवत्तिलकोल्लासी रम्भारम्यश्च रूपवत् ।
नेत्रवत्कमलानन्दी कान्तानां पन्नगाचलः ॥ २२ ॥
 
क्वचिञ्च तालाधिकसुन्दरश्रीः क्वचिच्च कुम्भोन्नतचारुलक्ष्मीः ।
क्वचिञ्च पीनोच्चकरीरसंपच्छेषाचलोऽयं कुचवन्मृगाक्ष्याः ॥ २३ ॥
 
इति सादरमुद्दिश्यमानानि वस्तून्यवेक्षमाणः क्वचित्प्रदेशे अगस्त्य -
 
भुजंगप्रयातवृत्तमेतत् । इतः पुरस्तादिति । 'आचार्याढकमानेषु काकोले द्रोण
उच्यते । द्रोणः स्याद्देशभेदेऽपि ' इति लिङ्गाभट्टः । 'पक्षः पार्श्वगरुत्साध्यसहायब-
लभित्तिषु' इति वैजयन्ती । 'उलूकः कुरुभेदेऽपि पेचके जम्भभेदिनि' इति
विश्वः । 'धार्तराष्ट्र: सुराज्ञि स्यात्पक्षिक्षत्रिययोरपि' इति रभसः । 'मधुव्रते खगे
बाणे शिलीमुखः' इति लिङ्गाभट्टः । अन्ये पक्षिमृगवृक्षभेदाः । पक्षे योधभेदाः ।
तदन्यत्सुगमम् ॥ क्रीडत्कीरामिति । हरिन्नीलवर्णयोर्व्यामिश्रोक्तिरिति कविस-
मयः । 'वंशकरीरनीलैः' इति कालिदासः ( माघः ) । 'रामं दूर्वादलश्यामं' इति
च । 'क्वाप्यैक्यं हरितकृष्णयोः' इति कविकल्पलता । मत्तमयूरवृत्तम् । फालव-
दिति । तिलको रम्भा च वृक्षभेदः । कमलो मृगः । क्वचिञ्चेति । तालादित्रयं
वृक्षभेदः । पक्षे इभाङ्गं कलश इति । क्वचित्प्रदेश इति । उच्चावली उपरि-