2023-08-31 06:53:37 by jayusudindra
This page has been fully proofread once and needs a second look.
यति । शरभः केसरिणं बाधते । ऋक्षस्त्रासितलक्ष्मणः । रामो नलं
भक्षयति । नीलो गवयश्चोन्मूलितरम्भः पनसमपि भङ्गुमिच्छति ।
अनन्तशाखोल्लसितागमश्रीर्न्यङ्कुव्रजाराधितपाददेशः ।
नानाद्विजालापमनोहरोऽयमाचार्यलीलां विवृणोति शैलः ॥ १७ ॥
इन्द्राणीरुचिरतराप्सरोभिरामो ज्ञातैरावतवरकुम्भरम्यलक्ष्मीः ।
सोऽयं निर्जरवनिताविहारभूमिः शैलेशः प्रथयति पाकशासनत्वम् ॥ १८॥
किं च,
सुहितमिलिन्दा बहुलमरन्दा परिमलपुञ्जाकलितकरञ्जा ।
इह नृप मल्लीव्रततिमतल्ली निबिडितपत्रा कुसुमविचित्रा ॥ १९ ॥
( साश्चर्यम् ।) इत उत्तरतो देहि दृष्टिम् । मधुरावन्यां कृष्णेनेव
धन्यां कृष्णवर्त्मना क्रीडितं भवेत् । यतोऽयं पर्वतैकदेशो हीनबको
नष्टहंसो मृदितसृगाल उत्सन्नबाणो दग्धभूमिजस्त्रासितगजमल्लः ।
दलन्मल्लिकाजालनिर्यत्ननिर्यन्मरन्दद्रवासारमत्तालिगीतम् ।
समाकर्णयद्भिः कुरङ्गैर्द्विपारिं विलोक्यापि नो भूभुजंगप्रयातम्॥२०॥
हसने हेतुः । तत्त्वार्थस्तु–भृगपशुपक्षिवृक्षभेदाः । नलं तृणभेदः । 'नलादय-
स्तृणम्' इत्यमरः । नील इति गवयविशेषणम् । अनन्तेति । शाखा वृक्षाव-
यवाः । अगमो वृक्षः । पक्षे वेदाः । आगमः पुराणम् । 'न्युङ्कुर्गुरुकुलस्थायि-
शिष्ये माने मुनौ मृगे' इति रत्नमाला । 'दन्तविप्राण्डजा द्विजाः' इत्यमरः ।
इन्द्राणीति । इन्द्राणी वृक्षभेदश्च । रुचिरतरजलजलाशयाश्चेति द्वन्द्वः । तैरभि-
रामः । 'ऐरावतोऽभ्रमातङ्गे नारङ्गे लकुचद्रुमे । नागभेदे च पुंसि स्याद्विद्युत्तद्भे-
दयोः स्त्रियाम् ॥ नपुंसके महेन्द्रस्य ऋजुदीर्घशरासने ।' इति सुधा । 'कुम्भस्तु
कुम्भकर्णस्य सुते वैश्यासुते घटे । राशिमेदे द्विपाङ्गे च कुम्भस्त्रिवृति गुग्गुलौ ।'
इति विश्वः । सुहितेति । परिमलपुजेनाकलितः संबद्धः करजो वृक्षभेदो यस्याः ।
कुसुमविचित्रावृत्तमेतत् । साश्चर्यमिति । भूमिजो वृक्षः । पक्षे बकादयो दैत्य-
भेदाः । गजः कुवलयापीडः । मल्लश्चाणूरश्च । दलदिति । हे भूभुजंग भूपते ।