2023-08-31 06:35:44 by jayusudindra
This page has been fully proofread once and needs a second look.
शेषमारुतविवादेन भूतलं प्राप्तः दिव्यभोगिकुलप्रणयिनः कलधौतरूपस्य
रत्नसानोरपत्यं सर्पराजस्यांशावतारो भगवान्भुजंगाद्रिः । भवतु यो वा को
वा । अवगाह्य पश्यामीति ।
ततश्च तथा कृत्वा सानुगोऽप्येकाकी सुपादोरुनितम्बमध्यदेशोल्लस-
न्नाभिशोभां सुललितकर्णनेत्रां शिखरमनोज्ञदन्तावलीविराजितां कुन्तल -
सत्केतकसुमां पुंनागस्पृहणीयां पर्वतैकदेशस्थलीं तत्र कांचन वनदेवतां
चापश्यत् ।
अथ तथा वनदेवतया देव, अयमद्भुतनिदानं पर्वतेन्द्रः । यतोऽस्य
मनोजवसत्त्वम् । तथाहि —— अत्रेदं नन्दनं वनम् । यत्र समन्दारानन्दम-
सुखे स्त्र्यादिभृतावहेश्च फणकाययोः' इत्यमरः । 'कलधौतं रूप्यहेम्नोः' इत्यमरः ।
ततश्चेति । अनुगा भृत्या इति विरोधः । 'स्नुः प्रस्थः सानुरस्त्रियाम्' इत्यमर
इति परिहारः । प्रत्यन्तपर्वतः । उत्कृष्टकटकः । अन्तरस्थानम् । मृगभेदः ।
पक्षे—–—चरणम् । उत्सङ्गः । कटिपश्चाद्भागः । वलग्नप्रदेशः । अवयवभेद इति ।
'नितम्बः पश्चिमश्रोणिभागेऽद्रिकटके कटौ' इति शब्दार्णवः । 'न्याय्यावलग्नयो-
र्मध्यमन्तरे चाधमे त्रिषु' इति रभसः । कर्णो मृगभेदः । नेत्रं तरुमूलम् ।
पक्षे– स्पष्टोऽर्थः । शिखरमप्रभागः । दन्ताः सानूनि । पक्षे - रत्नवन्मनो-
ज्ञदन्तपङ्किशोभिताम् । 'शिखरं पुलकाग्रयोः । पक्वदाडिमबीजे च माणिक्य-
शकलेऽपि च' इति हैमः । 'दन्तो गिरिनितम्बे च दशने सानुनि स्मृतः'
इति विश्वः । 'श्रुतिमुक्ताः शिखरोपमा बभूवुः' इति भानुदत्तः । कुन्त आयुध-
भेदः । पक्षे – कुन्तलाः केशाः । 'पुंनागस्तु सितोत्पले । जातीफले नृपश्रेष्ठे पाण्डु
नागे द्रुमान्तरे ॥' इति सुधा । अथ तयेति । 'निदानं त्वादिकारणम्' इत्य-
मरः । 'मनोजवसः पितृसंनिभः' इत्यमरः । 'प्राप्तं सर्वगुणैर्मनोजवसतां प्रासूत
नक्तंचरी' इत्यनन्तभट्टः । शेषाचलस्य मेरुपुत्रत्वान्मेरुसमान इति भावः । अत्र
गिरौ । नन्दनं हर्षकम् । मेरुपक्षे–वासवोद्यानम् । मेरौ नन्दनवनमस्त्रीत्यार्याः ।
'रम्या मेरुचिराश्रया । नन्दनोद्यानमालेव स्वस्थैरालोच्यतां कथा ॥ इति नल-
चम्पूः । यत्र वने । सममविषमं यथा तथा। दारानन्दं भार्यानन्दम् । पक्षे -