2023-08-31 06:21:53 by jayusudindra
This page has been fully proofread once and needs a second look.
टन्नेकाकी कस्मिंश्चित्प्रदेशे खड्गचक्रशरासनशिलीमुखोद्भासितं मत्तसारङ्ग -
हरिचक्रिशोभितमनेकभूदारकुलसेव्यमानपादं
महाराजमिवाशेषभूभृदुत्तंसं
कंचन पर्वतं ददर्श ।
स एव हि वरचक्षुःश्रवणनिर्जरकन्यकाविहारभूमेर्विश्वाधिकां काञ्च-
नश्रियं वहतो धराधरख्यातिं गतस्य गौरद्युतेरगराजस्यापत्यं नागरा-
जस्यांशावतारः शेषाचलो नाम । यश्च गिरीशोऽपि चन्द्रवरूपः । तुङ्ग-
भद्राकृतिरपि शतद्रुशोभितः ।
अथ चैनमालोक्यतस्तस्य चेतसि चिन्ता समजनि । किमयं विन्ध्यो
भवेत् । नहि नहि । स हि करीरजाततिरस्कृतमहिमा । अयं पुनः
स्वपादैकदेशाश्रयवर्धितकरीरजातः । नापि मेरुः । स च सुराक्रीडम् ।
नापि महेन्द्राद्रिः । स ह्येकरामाश्रयः । अथ वा सोऽयमेव भवेत् ।
चतुष्टयमायुधभेदः । पक्षे –खड्गमृगः । कोकः । शरवृक्षः । असनवृक्षः । मृङ्गाः ।
गजाश्वस्यन्दनम् । पक्षे – गजसिंहसर्पा: । भूर्दारा येषां ते राजानः । पक्षे-
'क्रोडो भूदार इत्यपि' इत्यमरः । 'पादा मूलोस्रतुर्यांशाङ्घ्रिषु प्रत्यन्तपर्वताः' इति
हैमः। 'भूभृद्भूमिधरे नृपे' इत्यमरः । स एवेति । अगनागेति शब्दतो विरोधः ।
पर्वतः सर्प इति परिहारः । शेषांशो मेरुपुत्रो वेङ्कटाद्रिरिति पुराणम् । उत्तमने-
त्रकर्णदेवस्त्रीविहरणयोग्यक्षोणीकः । पक्षे – उत्तमसर्प- तरुणकुमारीसुरतस्थानम् ।
'भूमिः क्षितौ स्थानमात्रे' इति हलः । 'कन्या नार्यां कुमार्यां च' इति हैमः ।
सुवर्णसंपदम् । पक्षे अनिर्वाच्यविषयाम् । 'गौरोऽरुणे सिते पीते' इत्यमरः ।
यश्चेति । शिवः सुधांशुरिति विरोधः । पर्वतश्रेष्ठः स्वर्णस्वरूप इति परिहारः ।
'चन्द्रः कर्पूरकाम्पिल्यसुधांशुस्वर्णचारुषु' इति सुधा। उत्तुङ्गमङ्गलाकृतिर्वृक्षशत-
शोभित इति परिहारः । द्वे नद्याविति विरोधः । अथ चैनमिति । करीरजातः
अगस्त्यः । क्लीबे वृक्षभेदवृन्दमिति तत्त्वार्थः । चमत्कारस्तु शब्दत एव । 'करी-
रस्तरुभेदे स्याद्धटे वंशाङ्क रेऽपि च इति लिङ्गाभट्टः । सुराणां मद्यानामिति निन्दा ।
देवानामिति तत्त्वार्थः । 'ज्ञेयमाक्रीडमुद्यानम्' इत्यमरमाला। पशुमेद इति निन्दा ।
परशुराम इति तत्त्वार्थः । अथवेति । भोगिनो विलासिनः । पक्षे सर्पाः । 'भोगः