2023-08-31 06:12:25 by jayusudindra
This page has been fully proofread once and needs a second look.
चकाराग्निः । वैवस्वतं यमदेवमाहुः । वरुणस्तु न विप्रचेताः । अलीक-
दृष्टिः शिवः । कुबेरस्तु गुह्यकामितप्रणयः । किं बहुना, स्वः पुरंदरं
वहतीति लोकापवादः ।
अलमतिविस्तरेण । यश्च,
सुरवरदः सुरवरदः सकलं: सकलो बली बली सततम् ।
ललितप्रमदो ललितप्रमदः सरसश्च सरसश्च ॥ १५ ॥
पादे यस्य हि मालती कुवलयं यस्योदरे राजते
वक्षोलंकरणं तनोति कमला वासोऽपि कोशालये ।
कुन्दश्रीः कुमुदोल्लसच्च भवनद्वारोपशल्यं सदा
जीयात्सत्सुमनोभिरामचरितः श्रीकृष्णकल्पद्रुमः ॥ १६ ॥
यस्य च पञ्चधारातिभयंकरमपि सहस्रधारातिभयंकरमश्ववृन्दम् । अ-
स्त्वेतत् । स हि कदाचिन्निरन्तसुखानुभवकुण्ठेतरमहिम्नि वैकुण्ठे वनि-
तासु न चरमया रमया रममाणो धरणितलशोभादिदृक्षया तत्र तत्र पर्य-
त्वम् । यं अदेवम् । न विद्यते विप्रेषु चेतो यस्य सः । नसमासः । पक्षे प्रचेता
नेति विप्रचेताः तादृशो नेति न विप्रचेताः । प्रचेता एवेत्यर्थः । विरभाववाची ।
अलीकदृष्टिरसत्यज्ञानः फालनेत्रश्च । 'दृष्टिर्ज्ञानेऽक्ष्णि दर्शने' इत्यमरः । 'अली-
कमनृतं प्रोक्तं ललाटाप्रिययोरपि इति लिङ्गाभट्टः । स्वःपुरमित्येकमेव पदम् ।
दरं भयम् । पक्षे—स्वरिति च्छेदः । सुरवरदेति । सुराणां वरदः । शोभनो रवो
रदाश्च यस्य । सविद्यः पूर्णश्च । बलवान् बलभद्रवांश्च । मनोज्ञस्त्रीकः । ललितं
हावभेदस्तेन प्रकृष्टसंतोषः । सशृङ्गारः सभूमिश्च । पादे यस्येति । मालती
गङ्गा । कुमुदो वैकुण्ठद्वारपालभेदः । उपशल्यं प्रान्तस्थानम् । यद्यपि 'ग्रामान्त
उपशल्यं स्यात्' इत्यमरस्तथापि विशेषशब्दोऽत्र सामान्यपरः । अत्र पुष्पवाच-
कबहुशब्दलाभः । यस्येति । पञ्च धारा अश्वगतिभेदः । 'गतयोऽमूः पञ्च धाराः '
इत्यमरः । सहस्रधेति च्छेदः । अरातिः शत्रुरिति परिहारः । विरोधस्तु सुगमः ।
सहि कदाचिदिति । न चरमया अपश्चिमया । श्रेष्ठयेति यावत् । खड्गादि-