2023-09-09 06:08:51 by jayusudindra

This page has been fully proofread once and needs a second look.

वाहिन्येकैव गङ्गाख्या पादे तस्येति विश्रुता ।
इदानीं वाहिनीद्वन्द्वमिति चित्रीयते मनः ॥ २३ ॥
 
अथ विविधप्रयत्नेन प्राप्तप्रबोधः पौरवृद्धैः सह संमन्त्र्य समं विभज्य
तद्द्रायम् । तोण्डिमानकुमारौ तोषयन्प्राप्तराज्यौ द्वावप्यापृच्छ्य पद्मावत्या
सह भोगीन्द्राचलं प्रत्युदचलच्छ्रोनिवासः ।
कण्ठे कण्ठीरवाख्यां प्रतिफलमधुरां बिभ्रतः सूरिचूडा-
रत्नस्यान्ते वसन्यः कलयति कवितां गद्यपद्यावबद्धाम् ।
तस्य श्री श्रीनिवासप्रभुवररचिते वेङ्कटेशस्य काव्ये
पर्याप्तः श्लेषसारे कविमशकशिशोः पञ्चमोऽयं विलासः ॥२४॥
 
इति श्रीमन्निखिलश्लिष्टकाव्यरचनाधौरेयकविचूडामण्डितमुकुटललामावलीनी-
-राजितचरणयुगलश्रीमद्वेङ्कटाध्वरिविरचितायां श्रीनिवास विलासाभिधाशालिन्यां
चम्प्वां उत्तरविलासे पञ्चमोऽयमुल्लासः ॥ ५॥
 
वाहिनीति । तरङ्गिणी सेना च ॥ २३ ॥ दायं पित्रार्जितं द्रव्यम् । कण्ठ
इति । कण्ठे कण्ठीरवो नृसिंहः ॥ २४ ॥
 
इति श्रीधरणीधरविरचितायां श्रीनिवासचम्पूटीकायामुत्तरविलासे
पञ्चम उल्लासः ॥
 
समाप्तोऽयं ग्रन्थः ।