śrīnivāsacampū /175
This page has been fully proofread once and needs a second look.
अहह ।
सेनापतिः संयति लब्धलक्ष्यो जित्वारियूथं सहसा प्रभग्नः ।
पलायमानो यदसौ विचित्रं सेनाविहीनोऽप्यभवच्चमूढः ॥ १९ ॥
इत्येवमुक्त्वा संवृतवचसि तस्मिन्सेनापतिभङ्गश्रवणकोपेन कलितता- पेन तोण्डिमानभूपेन
प्राकाशि चक्रं यदनेकधारं ज्वलज्ज्वलच्छ्रीमदनेकधारम् ।
कर्तुं ययौ सर्वविपक्षपातं तत्तोण्डिमाने कृतपक्षपातम् ॥ २० ॥
अनन्यधार्यं प्रसमीक्ष्य चक्रं तत्तापितं चापि कुमार चक्रम् ।
सुदर्शनं घोरतरं स देवो बभार वेगात्किल वासुदेवः ॥ २१ ॥
ततश्च ।
निजायुधप्रतापेन जगाम वसुधां हरिः ।
युक्तस्वभक्तरागाढ्यो बभारापि च मूर्च्छनाम् ॥ २२ ॥
तस्मिन्व्यतिकरे युद्धोत्सवदर्शनभङ्गदुःखमस्माकं दैववशात्प्राप्तमिति
अभिनयति खेदमुद्रां भगवति नारदे हाहेति ॠन्दत्सु नारायणपुरनिवा-
सिजनेषु सपरिवृढा सेनायुगुली वीतरणव्यापारदुराग्रहा तथाविधस्य श्री -
निवासस्य चरणमूलमुपागमत् ।
सेनापतिरिति । चम्बा उढः । पक्षे - चेति भिन्नं पदम् । मूढः ॥१९॥ प्राका-
शीति । धाराः अराणि । अनेकधेति । अरमिति च्छेदः अलमित्यर्थकः ।
विपक्षाणां पक्षपातम् ॥ २०॥ २१॥ निजेति । रागः भैरवादिः । 'सप्तस्वरस-
माहारो मूर्च्छना परिकीर्तिता' इति । युक्तताप्रकारः । तत्त्वार्थस्तु स्फुटः ॥२२॥