2023-09-09 05:59:10 by jayusudindra

This page has been fully proofread once and needs a second look.

स्वैः स्वैः परं परिवृढैः परिपाल्यमाना
सेनाद्वयी समरभूमिमुपाजगाम ॥ १२ ॥
 
तदा कुमारोऽपि भुजावलेपान्मौर्वीसनाथीकृतचापदण्डः ।
किरञ्च्छरान्सर्पसमानरीणां बभूव भीष्मोऽपि विचित्रवीर्यः ॥ १३ ॥
 
शुभ्राश्वयुक्स्यन्दनभृत्किरीटी मनोरथाग्रार्पितकंसशत्रुः ।
हरिध्वजः प्राप स तोण्डिमानो रणक्षमां स्मारितपार्थचर्यः ॥ १४ ॥
 
संमर्दे सति गगने सुराङ्गनानामुत्तुङ्गस्थलमनवेक्ष्य नारदोऽयम् ।
वीरौघाप्रतिमपराक्रमं दिदृक्षुः स्वर्योषागुरुकुचमारुरुक्षुरासीत् ॥ १५ ॥
 
अथ तस्मिन्व्यतिकरे कश्चिद्वेत्रपाणिस्तोण्डिमानभूपालमवदत्-
 
वीरावेतावाजिरङ्गावतीर्णौ कृत्वा युद्धं विग्रहत्यागकामौ ।
एकः शत्रोः खङ्गपातादथाग्रे योधाभावादन्य इत्येष भेदः ॥ १६ ॥
 
रिपोः शराघातविभिन्नमूर्धा दन्तावलोऽयं विलुठन्पृथिव्याम् ।
गुरुप्रहारोन्मथितस्य तस्य क्रौञ्चस्य लीलां वहतीति मन्ये ॥ १७ ॥
 
न केवलं वर्णत एव राजन्वशाधवो नीरदभावमाप ।
किं तु प्रभो वैरिभुजप्रमुक्तमहागदाभग्नरदत्वतश्च ॥ १८ ॥
 
प्राचीनप्रयोगः ॥ १२ ॥ तदेति । भीष्मः देवव्रतः । विचित्रवीर्यः राजभेदः ।
इति नामतो विरोधः । क्रूरः अद्भुतपराक्रमः ॥ १३ ॥ शुभ्राश्वयुगिति ।
शुभ्रा उद्दीप्ताः । इति तोण्डिमानपक्षे । पार्थपक्षे-धवलाः । 'शुभ्रमुद्दीप्तशुक्लयोः
इत्यमरः । हरिः सिंह: कपिश्च । रणक्षमां रणभूमिम् ॥ १४ ॥ अन्यत्सु-
नामम् ॥ १५ ॥ व्यतिकरः प्रकारः । वीरावेताविति । 'विग्रहः
समराङ्गयोः" इति धरणिः । अग्रे सन्मुखप्रतिवीराभावात् ॥ १६ ॥ १७ ॥
न केवलमिति । वशाधवः गजः । नीरदो मेघः । दन्तहीनश्च ॥ १८ ॥