2023-09-09 05:53:48 by jayusudindra

This page has been fully proofread once and needs a second look.

इति । ततश्च तावुभावपि दुराग्रहग्रस्तौ -
 
अयं कुमारः स च शक्तियुक्तो राज्ञः सुतोऽयं स बुधत्वमेति ।
अयं तपखी स च धर्मविद्याविचक्षणो द्वावपि मे समानौ ॥ ९ ।
 
इति । पद्मावत्योक्तश्लोकाभिप्रायं च विदित्वा पुनः प्राह -- 'यद्यस्मा -
त्स्वेदयितुं युवयोः समीकमेव हितं भवति तर्हि ।
 
अहं चैकतश्चक्रमेकत्र बुद्ध्वा इदानीमपि स्यात्तथैव व्यवस्था ।
नरः कौरवश्चापतुर्हर्षमुच्चैर्यथेच्छं स गृह्णातु भागं स्वकीयम् ॥१०॥'
 
इत्येवमुक्तवति देवे
गृह्णश्चक्रं तोण्डिमानो नृपालः प्राप स्थानं स्वं तथा हृष्टरूपः ।
तद्वद्देवं राजहंसं मुदाढ्यः स्वीकृत्यागात्स्वां पुरीं राजपुत्रः ॥ ११ ॥
 
ततश्च ।
 
हस्त्यश्वपत्तिरथघोषविमिश्रभेरी-
भाङ्कारपूरितदिशावलयन्तराला ।
 
ष्वेकत्वात् ॥ ८ ॥ अयमिति । कुमारः स्कन्दः । पक्षे - बालः । शक्तिः स्कन्दा-
युधम् । पक्षे सामर्थ्यम् । 'कासूसामर्थ्ययोः शक्तिः' इत्यमरः । राज्ञश्चन्द्रस्य ।
पक्षे - भूपस्य । बुधो ग्रहभेदः । पक्षे विद्वान् । तपस्वी तपोनिष्टः । पक्षे अनु-
कम्प्यः । धर्म आचारः । पक्षे-धनुः । बालः राजपुत्रः । पक्षे दीनः । त्वया
परिपालनीय इति भावः । 'तपस्वी तापसे चानुकम्प्ये' इति । 'धर्मोऽस्त्री
पुण्यआचारे स्वभावोपमयोः ऋतौ । अहिंसोपनिषन्न्याये ना धनुर्यमसोमपे ॥'
इति सुधा ॥ ९ ॥ अहमिति । चक्रं सैन्यम् । आयुधं च ॥ १० ॥ गृह्ण-
न्निति । चक्रं कोकम् । सुदर्शनं च । राजहंसं पक्षिणम् । भूपश्रेष्ठं च ॥ ११ ॥
हस्त्यश्वेति । भांकारः अनुकरणशब्दः । 'भेरीभांकृतिभिस्तुरङ्गनिनदैः' इति