2023-09-09 05:48:18 by jayusudindra

This page has been fully proofread once and needs a second look.

तच्छ्रुत्वा श्रीनिवासस्तोण्डिमानं प्राह -
 
सुतोऽग्रजस्येति जगन्निवास: पार्थस्य सेवामुररीचकार ।
भीष्मः परित्यज्य वसुंधराशां वैचित्रवीर्यं नृपमाततान ॥ ५ ॥
 
( कुमारं प्रति ।)
युधिष्ठिरः किं न विदां वरिष्ठो न तत्पितृव्ये धृतराष्ट्रतासीत् ।
धरासुतस्यापि धरापतित्वे कथं मनीषा प्रसरत्यये ते ॥ ६ ॥
 
( उभौ प्रति 1 )
येषां मनीषास्ति धरान्वितत्वे तेषां न गोत्रान्विततेति चित्रम् ।
ज्याकर्षणं ये बहु मानयन्ति कीनाशलोके गणनैव तेषाम् ॥ ७॥
 
वस्वीशतैकस्य मतीशतेयमन्यस्य चेत्तर्हि समो विभागः ।
द्वयोर्विवादे सति चैवमेव बुधैर्विभज्या वसुमत्यमेया ॥ ८ ॥
 
वीति भार्यास्तवनिर्वाहः ॥ ४ ॥ सुत इति । अग्रजस्येन्द्रस्य । स्वस्योपेन्द्रत्वात् ।
जगन्निवासो वासुदेवः । पार्थस्यार्जुनस्य । सेवां सूतत्वरूपाम् । उररीचकार
अङ्गीचकार । वैचित्रवीर्यं पाण्डुम्, धृतराष्ट्रं वा । त्वमपि भ्रात्रेयं राजानं कुर्विति
भावः ॥ ५ ॥ युधिष्ठिर इति । धृतराष्ट्रता भूपत्वमिति चमत्कारः । त्वमपि
पितृव्यस्य राज्यत्वमङ्गीकुर्विति भावः । तन्नामकत्वमिति तत्त्वार्थः । धरा आका-
शराजपत्नी । भूमिश्चेति परिहारः । विरोधस्तु स्पष्टः ॥ ६ ॥ येषामिति ।
धरागोत्रयोरपि भूम्यर्थकत्वाचित्रत्वम् । तत्त्वार्थस्तु -गोत्रं कुलम् । ज्या भूमिः ।
कीनाशः कर्षक इति च । मौर्वीं, यमः इति तत्त्वार्थः । युद्धेनार्थो नास्तीति
भावः ॥ ७ ॥ वस्वीशतेति । वसुमतीत्यक्षरचतुष्टये एकस्य वस्वित्यक्षरद्व-
यम् । अन्यस्य मतीत्यक्षरद्वयमिति चेत्समो विभाग इत्येकोऽर्थः । वसु धनम् ।
मतिर्बुद्धिरित्यपरः । द्वयोरपि यदि धनाशा, बुद्ध्यभावश्च तर्हि येनकेनचित्समेऽपि
कृते विभागे विभागं विषमं जानतो न विरमतश्च कलहात् । अतो विभागक-
रणपक्षोऽपि नोचित इति भावः । अत्र वसु पृथ्वी ग्राह्या । तस्या अपि धने-