2023-09-09 05:38:29 by jayusudindra

This page has been fully proofread once and needs a second look.

पञ्चमोल्लासः ।
 
अथ कदाचित्प्रभातसमये वेत्रपाणिर्व्यजिज्ञपत्-
'घनतिमिरहारिसंपज्जयति हि कृष्णप्रबोधरुचिरश्रीः ।
सर्वत्र शरद्गमने सूर्यो देवर्षिरपि गृहद्वारि ॥ १ ॥"
 
श्रीनिवासः - (ससंभ्रमानन्दादरमुत्थाय संमान्य भगवन्तं नारदमास्था-
नमण्डपं प्रवेश्य ।) 'महर्षेः कुत आगमनम्' इत्याह ।
सोऽप्यवदत् - 'भवद्दर्शनार्थं विरञ्चिलोकात् ।'
श्रीनिवासः -- अनुगृहीतोऽस्मीति ।
नारदः-
कीर्तिः सोडुपसंततिर्हि तरणिः श्रेणी प्रतापश्च ते
साचिव्यं गुणसिन्धुपारगमने कुर्यादिति श्रद्धया ।
हृष्टे मय्यचलादिमातदितरा दृष्टान्यरोधाभव-
त्कुर्वे किं नु तथा विरुद्धगुणयोः श्रीश्रीनिवासप्रभो ॥ २ ॥
 
अथ कदाचिदिति । घनेति । घनो मेघस्तत्संबन्धि तिमिरं मालिन्य-
मिति शरत्पक्षे । घनमविरलं यत्तिमिरमन्धकार इति सूर्यपक्षे । नारदपक्षे तिमि
रमज्ञानम् । कृष्णस्य प्रबोधो निद्रात्यागः । शरदीति शास्त्रं पक्षद्वयेऽपि । कृष्णेति
संबोधनम् । प्रबोधो निद्रात्यागः । जनानामिति शेषः । पक्षे प्रकृष्टज्ञानम् ॥१॥
कीर्तिरिति । उडुपसंततिः प्लवपरम्परा । प्रतापः । तरणिश्रेणी नौकापङ्क्तिः। सि-
न्धुपारगमने विषये साचिव्यं सहायं कुर्यादिति श्रद्धया विश्वासेन मयि दृष्टे सति ।
द्वयोरपि सिन्धुतरणसाधनत्वादिति भावः । ततः किमित्यत आह–अचलेति ।
अचला चलनरहिता । अदृष्टापरतीरा । द्वयमप्यप्रयोजकमिति भावः । विरुद्धगु-
णयोः सत्योरिति सिन्धुपक्षे । गुणपक्षे तु-उडुपश्चन्द्रः । तरणिः सूर्यः । गुणाः
सौमनस्यादयः । अचला स्थिरा । अन्यै रोधः निरोधः । पश्चाद्बहुव्रीहिः । निर-
र्गलप्रवाहेत्यर्थः । एका धवला, एका शोणेति, शीतलां, उष्णेति च विरुद्धगुणत्वं
ज्ञेयम् । कीर्तिप्रतापयोर्धबलत्वादिगुणाः । कल्पलताः प्रसिद्धाः । 'उडुपं तु प्लवः
कोलः' इत्यमरः । 'नौस्तरणिस्तरिः' इति च । 'रोधः प्रोक्तश्च रोधसी' इति च ।