2023-08-31 06:06:27 by jayusudindra
This page has been fully proofread once and needs a second look.
विपुलकटकरचितपुंनागशोभान्वितः । गौराम्बरतया शुभ्रानन्त श्रीविरा-
जितः ।
किं च, माधवतया वैशाखेडितः । अम्बिकानन्दनतया वैचित्रवीर्यः ।
निर्जरतया वैमानिकामितरूपः । सन्मालालंकृततया वैजयन्त्युद्भूतिरुचिरः ।
सुमुखोऽपि वैमुख्यस्थितियुक् । सर्वसुहृदपि वैरोचितः । मैत्र्याधिकास -
क्तोऽपि वैराधिकासक्तः । वैकुण्ठोऽप्याशुगसंप्रदायज्ञः ।
अपि च, यस्य च पुरी अयोध्येव द्वारका । यत्र हि रामानुरक्ता
टकयोर्गौराम्बरशुभ्रानन्तयोरेकार्थकत्वात्कश्चिच्चमत्कारः । 'तिलकं बिन्दुचित्रकम्'
इति ध्वनिमञ्जरी । पुंनागः पुरुषश्रेष्ठः । इति चमत्कारपक्षेऽर्थः। तत्त्वार्थस्तु– तिलकः
श्रेष्ठोऽद्भुतापेक्षितसौन्दर्यः । सद्वलयः सज्जनवृन्दम् । कटो गजगण्डः । करः शुण्डा-
दण्डः । चिता संबद्धा पुंनागशोभा तयान्वितः । गौराम्बरः पीतवासाः उद्दीप्तापरिमि-
तसंपच्छोभितः। 'शुभ्रमुद्दीप्तशुक्लयोः' इत्यमरः । 'गौरोऽरुणे सिते पीते' इति च । किं
च, माधवतयेति । माधवो वैशाख इतीडितः स्तुतश्चेति चमत्कारः । तत्त्वार्थस्तु
वै इति च्छेदः । शाखा वेदभेदाः । एवमग्रेऽपि अम्बिका धृतराष्ट्रमाता । नन्दनः
पुत्रः । वैचित्रवीर्यो धृतराष्ट्र । पक्षे – चित्रपराक्रमो जननीहर्षकश्च । 'नन्दनं
वासवोद्याने सुते ना हर्षके त्रिषु' इति रत्नमाला । निर्जरः देवः । वैमानिका देवाः ।
पक्षे युवा मानिभिः कामितसौन्दर्यः । वैजयन्ती माला । पक्षे – 'रोहिण्याम-
र्धरात्रे च यदाकाला (लेऽ) ष्टमी भवेत् । जयन्ती नाम सा' इति स्मृतिः । 'संप-
त्तिभस्मजननेषु भूतिः' इति लिङ्गाभट्टः । वैमुख्यं विमुखत्वमिति विरोधः । वै इवि
च्छेदः । मुख्यस्थितियुगिति परिहारः । 'यत्र चतुरंगोपशोभिताः सङ्ग्रामा इव
ग्रामाः' इति नलचम्पूप्रयोगः । 'मनोहरा वैश्रवणस्य लक्ष्मीः' इति भामिनीवि-
लासः । 'न हिमानी निषीदति' इति कविराक्षसः । 'हानिदाघप्रशान्तिः' इति,
विश्वगुणादर्शकृत् । 'स हिमानीगिरिस्थितः' इति वासवदत्ता । एवं पूर्वप्रयोगेषु
चेति वै इति हेतिपदविभागदर्शनादत्रापि चामीकरोज्वला इत्यादिषु साधुत्वम-
ङ्गीकार्यं सहृदयैः । अपि चेति । उद्धव उत्सवः । सुयज्ञ ऋषिभेदः । लसदृशा