2023-09-09 05:32:34 by jayusudindra

This page has been fully proofread once and needs a second look.

कामं वर्षति चागमान्कलयति प्रोज्जृम्भितान्संततं
जीयाद्यस्तु ददाति चामृतमपि श्रीकृष्णनीलाम्बुदः ॥११॥
 
सोमनाथः—
देव, अहमेवं तर्कयामि ।
 
अपहसतश्चन्द्ररुचिं दधतः करकश्रियं च घनतां च ।
उचितं पयोधरत्वं राजन्सरसस्य मेघस्य ॥ १२ ॥
 
अस्मिन्व्यतिकरे वेलावेदकः पपाठ -
दैत्येन्द्रहृत्तटविपाटनपाटवाद्य-
कण्ठीरवास्यघनगर्जितदेशिकोऽयम् ।
क्ष्माभृद्गुहाप्रतिरवद्विगुणो वराहो
देवस्य जृम्भति मुहुर्जयशङ्खनादः ॥ १३ ॥
 
इति श्रुत्वा वृषभाकारं दैत्यं निहत्य प्रतिनिवृत्तेन भगवता क्रोडेन
भवितव्यमिति सर्वाननुज्ञाप्य स्वयमपि तत्स्थानमगमत् ॥
 
इति श्रीनिवासविलासाख्यचम्प्वां उत्तरविलासे चतुर्थ उल्लासः ॥ ४ ॥
 
गजेन्द्रः । पक्षे चातकः । 'श्रुतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोरपि इत्यमरः ।
आगमाः शास्त्राणि । पक्षे वृक्षाः । अमृतं मोक्षम् । पक्षे- जलम् । 'अमृतं यज्ञशेपे
स्यात्पीयूषे सलिले घृते । अयाचिते च मोक्षे च' इति सुधा ॥ ११ ॥ अपह-
सत इति । चन्द्रकान्ते वर्षाकाले दौर्बल्यमिति कविसंप्रदायः । 'रविचन्द्रावपि
नोपलक्षितौ इति घटकर्परे । कर एव करकः वर्षोपलः । 'करो वर्षोपले' इति ।
सरो जलम् मेघपक्षे । स्तनपक्षे तु स्वर्णकान्तिः घटः । घनतां काठिन्यम् ।
शृङ्गाररसः ॥ १२ ॥ दैत्येन्द्रेति । कण्ठीरवास्यः सिंहः । देशिकः गुरुः ॥१३॥
इति श्रीनिवासविलासचम्पूटीकायामुत्तरविलासे चतुर्थ उल्लासः ॥