2023-09-09 05:28:33 by jayusudindra

This page has been fully proofread once and needs a second look.

सर्वाः स्त्रियो हसन्ति ।
श्रीनिवासः – कवे, पयोधरपालीं वर्णयेति भणामि ।
कहोड:-
 
चक्रो विरूपधारी नापि गुरुत्वं कदापि कलशस्य ।
तस्मादनुपमलीलो भात्येतस्याः पयोधराभोगः ॥ ९ ॥
 
श्रीनिवासः – नीरदावलिं वर्णय ।
कहोड:-
पूषा त्वेकः कोपयित्वा त्रिनेत्रं कालिङ्गश्चाप्यक्षगोष्ठ्यां द्वितीयः ।
दन्ताभावान्नीरदः कामपालात्तार्तीयीकं नैव जाने धरित्र्याम् ॥१०॥
 
कमलिनी–महाकवे, वार्धके सर्वो जनो नीरद इति कुतो न कथ-
यसि ।
 
देवः – (सस्मितम् ।) सुकवे, जीमूतं वर्णयेति ममाशयः ।
कहोड:~(उच्चैर्हसन् ।) देव, तथा भण पुनः । मेघादिशब्दैर्वयं
वञ्चिता द्व्यर्थैः ।
हंसानन्दमपाकरोति धरणौ कीर्ति तनोति स्फुटं
सारङ्गं परिपाति नाशयति तत्कीनाशदुःखं सदा ।
 
पङ्क्तिप्रदेशयोः' इति । चक्र इति । चक्रः कोकः । विरहवाची । रूपं सौन्दर्यम् ।
सौन्दर्यधारी नेत्यर्थः । गुरुत्वं स्थूलत्वमिति दोषारोपप्रकारः । तस्मात्कोकक
लशयोरुपमानयोग्यताभावादित्यर्थः । 'रूपं खभावे सौन्दर्ये' इति । विरूपं पक्षि-
रूपम् । 'विः पक्षिपरमात्मनोः' इत्येकाक्षरः । कलशेत्यक्षरत्रयस्य मात्राद्वया-
त्मकत्वाभावाल्लघुत्वमेव न गुरुत्वमिति तत्त्वार्थः । आभोगः विशालता ॥ ९ ॥
नीरदो दन्तहीनः । पक्षे मेघः । अर्थः सुगमः ॥ १० ॥ हंसानन्दमिति ।
कृष्णपक्षे हंसो दैत्यभेदः । एवमग्रेऽपि । 'कीर्तिः पङ्के यश<flag></flag>पि' इति । सारङ्गो