śrīnivāsacampū /167
This page has been fully proofread once and needs a second look.
श्रीनिवासः – (स्वगतम् ।) उद्धाटितं मर्म महाकविभ्याम् । प्रत्युक्ता
खलु सा सरणिः ।
कमलिनी – देव, कदा ।
श्रीनिवासः – यदादिमधुराधरा स्वीकृतिः । तिष्ठत्वेतत् । महाकवी,
मेघावली वर्णनीया ।
कहोड: – शिव शिव । अस्पृष्टदोषगन्धे देवेऽष्टमरससहचारी पापा-
ली।
श्रीनिवासः - कादम्बिनीं वर्णय ।
कहोड: – देव, वर्षासमये हंसाङ्गनानां न प्रचारः ।
श्रीनिवासः - एनां जलधरावलीं वर्णयेति भणामि ।
कहोड: ~~ (खगतम् ।) कथं राजदारान्वर्णयामि ।
प्रथमः – यदाज्ञापयति देवः ।
अतिरोहितकान्त्यधरश्रीवत्सज्जघनलक्ष्मिकुन्तलवत् ।
गिरिमधुरं कुचयुगवद्देव शरीरं लसत्यस्याः ॥ ८ ॥
न्तरे । सूर्यास्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे ॥" इति हैमः । 'कुञ्जरौ
करिकुन्तलौ' इति रत्नमाला । 'कुम्भौ घटेभमूर्धानौ' इति ॥ ७ ॥ मधुराधरा मधु-
रापत्तनभूमिरिति बाह्यार्थः । मधुरोऽधरो यस्याः सा पद्मावतीत्याकूतम् । मेघानां
पङ्किरिति वक्तुः, मे मम अघावली पापपङ्क्तिरिति श्रोतुरभिप्रायः । गन्धो लेशः ।
'गन्धो गर्वे लवेऽपि च' इति । 'कादम्बिनी मेघमाला कादम्बस्त्री च' इति
<flag></flag>गद्धरः । 'ह्यष्टवर्षा भवेद्योषिन्मता जलधरावलिः' इति मध्वविजयटीकायाम् ।
अतिरोहितेति । तिरोहितकान्ति नेत्यतिरोहितकान्ति शरीरम् । अधरश्रीषक्षे
तु अत्यन्तशोणकान्तिः । यथोचितं लिङ्गव्यत्ययः । समीचीनजघनसंपत् । गिरि
<flag></flag>चि । पक्षे - गिरिः पर्वतः । 'स्वादुप्रियौ च मधुरौ' इत्यमरः ॥ ८ ॥ 'पा<flag></flag>