śrīnivāsacampū /166
This page has been fully proofread once and needs a second look.
मैत्रं मण्डलमप्यथोच्चपदवीं प्राप्नोत्यरिक्ष्मापति-
व्यूहस्ते विजयः कथं तदितरस्तस्मिन्कथं वर्ण्यताम् ॥ ५ ॥
श्रीनिवासः – (सहर्षम् ) 'सन्त्येवात्र सहस्रशो युवतयः सा चातुरी
दुर्लभा' इति समस्यामाह ।
कहोड:
आसक्ते मयि पुष्पिणीति शयनं गेहाद्बहिः कल्पितं
नीतश्च प्रतिवेशिनी कपटतः पार्श्वं तदाहं त्वया ।
केलीकण्ठरवः कपोतनिनदव्याजेन गोपायितः
सन्त्येवात्र सहस्रशो युवतयः सा चातुरी दुर्लभा ॥ ६॥
सोमनाथ: -
छित्त्वा पुष्करमालिकां स तु बलादालोलयन्कुञ्जरा-
न्भिन्दन्कुम्भमसौ करं च कलयन्नाकर्षति स्म स्फुटम् ।
कृष्णः किं न हि केसरीत्युपवने श्वश्रूस्तया वञ्चिता
सन्त्येवात्र सहस्रशो युवतयः सा चातुरी दुर्लभा ॥ ७ ॥
स्वसुतम् । बाणं शरम् । मैत्रं मण्डलं सुहृत्कदम्बं । उच्चपदवीं महाराजत्वं इति
शत्रुसमूहस्तुतिः । तत्त्वार्थस्तु – स्वदेहोद्भवं शोणितम् । शरीरम् । सूर्यमण्डलम् ।
वीरस्वर्गम् । 'रक्तोऽनुरक्ते नील्यादिरञ्जिते लोहिते त्रिषु । क्लीबं तु कुसुमे ताम्रे प्रा-
चीनामलकेऽसृजि' इति सुधा । 'बाणशब्दस्य शरीरवाचकत्वं निर्वाणसुखम्' इति
रत्नावलीव्याख्यानाज्ज्ञेयम् । 'एतद्बाणमवष्टभ्य विदारयामि' इति श्रुतिश्च । 'बाणो
दैत्ये पृषत्के च समेऽङ्गे केवले भवेत्' इति लिङ्गाभट्टः ॥५॥ आसक्ते मयीति ।
पुष्पिणीत्वमसत्यमिति ज्ञापनायेत्युक्तम् । नीतः प्रापितः । प्रतिवेशिनी निकटवे.
श्मस्था । 'दृष्टिं हे प्रतिवेशिनि' इत्यमरके । केलीकण्ठरवः मणितम् । गोपायितः
गूहितः ॥६॥ छित्त्वेति । पुष्करमालिकां शुण्डाग्रपङ्क्तिं छित्त्वा । कुञ्जरान्गजान् ।
<flag></flag>लोलयन्नाकुलयन् । कुम्भं इभमूर्धानम् । करं शुण्डामिति केसरिपक्षे । कृष्णाप-
<flag></flag>-पद्महारम् । कुन्तलान् । घटम् । पाणिम् । 'पुष्करं द्वीपतीर्थाहिखगराजौषघा-