2023-09-09 04:48:16 by jayusudindra

This page has been fully proofread once and needs a second look.

एतस्मिन्व्यतिकर उद्यानद्वारपालेन निवेदितम् – 'देव, सुमनसां
विषये का वाज्ञा ।' इति ।
श्रीनिवासः – मालिकाः करणीयाः ।
स तु पुनः प्राह — 'देव, विद्वन्निकुरम्वं द्वारि तिष्ठतीति विज्ञाप-
यामि ।'
श्रीनिवासः - (विहस्य ।) प्रवेशय । को विचारः ।
ततो विपश्चिद्वृन्दमागत्य यथायोग्यमुपविष्टम् । तत्र कश्चित्कहोड-
नामकः प्राह -
 
सतीकण्ठे लग्नः करधृतकुमारो न नगरं
जुषन्नद्रौ तिष्ठन्गमयति च कालं सुकठिनम् ।
इदानीं राजेन्द्र त्वदरिनिवहः स्थाणुसमतां
प्रयात्युच्चैस्त्वं वै मनुजपदवीं यासि किमिदम् ॥ ४ ॥
 
अन्यः सोमनाथकविः
रक्तं स्वाङ्गजमाशु भूमिवलये निक्षिप्य जन्याङ्गने
हित्वा बाणमसौ भिनत्ति नितरां देवस्य संपश्यतः ।
 
एतदपीति । अलीकं नालीकशब्दप्रतियोगीति बाह्यार्थः । फालमित्या-
कूतम् । 'अलीकमनृते प्रोक्तं ललाटाप्रिययोरपि' इति । फालपक्षे । लला-
टका: चारुत्वं जगदित्यर्थः । 'भ्रमरः कामुके भृङ्गे ललाटालकयोरपि' इति ।
सुमनसो विद्वांसः पुष्पाणि च । सतीति । अरिनिवहः स्थाणुसमतां शिव-
साम्यमिति स्तुतिः । स्कन्धशाखादिरहितंवृक्षसाम्यमिति तत्त्वार्थः । 'स्थाणुः
कीले हरे' इति । सती पार्वती । पक्षे साध्वी । 'तव संसती नाम चरमा' इति
सौन्दर्यलहरी । कुमारः स्कन्दः पुत्रश्च । नरं न जुषन्निति । न जुषन्नेवेत्यर्थः ।
पक्षे नगरं पत्तनं न जुषन् । अद्रौ कैलासे । पक्षे पर्वते । कालं भृतं गमयति
युक्तं करोति द्रावयतीति यावत् । मृत्युंजयत्वात् । पक्षे समयम् । 'कालं मृत्यौ
महाकाले समये यमकृष्णयोः' इति । रक्तमिति । रक्तं अनुरक्तम् । स्वाङ्गजं