2023-09-09 04:42:14 by jayusudindra

This page has been fully proofread once and needs a second look.

लक्ष्मणा —देव, प्रायेणेयं मदनासक्तेव लक्ष्यते ।
श्रीनिवासः—तथा वक्तुं जडीभवति मे जिह्वा यतस्त्वयैवोक्तमद्य ।
चकितचकितं क्वापि क्वापि प्रमादगतं धनं
घनमिव निजं कान्तं भूयो वने कलयत्यहो ।
विरहविधुरा माकन्दद्रुभ्रमद्भ्रमराङ्गना
रणितमपि सा धत्ते तुष्ट्यै न नागवधूरिति ॥ २ ॥
 
देवी - (स्वगतम् ।) आः, पापया भिन्नं रहस्यम् । (प्रकाशम् ।) हरि-
णीवृत्तमेतत् । यतो न समरसलग्नानुबन्धि ।
कमलिनी–अतनुसमरसलग्नानुबन्धीति वक्तव्यम् ।
लक्ष्मणा–करिणीवृत्तमेतत् ।
श्रीनिवासः तरुणीवृत्तमिति वक्तव्यम् ।
देवी - (सलज्जम् ।) अलीकमेव वर्ण्यते प्रियसख्या ।
लक्ष्मणा —— तर्हि नालीकं वर्णयामि ।
 
भ्रमरकमनोज्ञमेतत्सौरभ्योत्पत्तिकुलभवनम् ।
भुवनेड्यस्थितिरम्यं नालीकं भाति नृपकन्ये ॥ ३ ॥
 
श्रीनिवासः - एतदप्यलीकवर्णनमेव जानामि ।
 
कुत्सितपुष्पाणि इति च । 'कुसुमानि सुमानि' इति लोकोक्तिः । 'प्रसूनं कुसुमं
सुमम्' इत्यमरः । अनवसरे अकाले । कोपकाले परिहासो न कार्य इति भावः ।
'परिहासोऽप्यनौचित्यम्' 'इति विद्यानाथः । रुषोक्तौ हुमिति । मदनासक्ता
मन्मथक्रीडासक्ता । पक्षे मय्यनासक्ता । चकितेति । धनं अविरलम् ।
बहुलमिति यावत् । नागवधूः करिणी ॥ २ ॥ हरिणीवृत्तं वृत्तभेदः । करिण्याः
वृत्तम् । चरित्रम् । अन्यापदेशरीत्या वनिताचरित्रम् । अलीकमसत्यम् । नालीकं
वर्णयामीत्यत्रासत्यादन्यत् । सत्यमिति बाह्यार्थः । पद्ममित्याकूतानुसारेण वर्णनं
ज्ञेयम् । भ्रमरकेति । भ्रमरका भृङ्गाः । सौरभ्यं परिमलः । भुवनं जलम् ॥३॥