2023-09-09 04:35:16 by jayusudindra

This page has been fully proofread once and needs a second look.

श्रीनिवासः - देवि धरे, इदानीं मदधीनांसि खलु -
धरादेवी – देव, यदा रसातलादुद्धृता भवता वराहरूपेण
अत्रान्तरे कश्चित्किंनरः पपाठ -
 
लोकाज्ञातनिदानकहरनर्तनमूलकारणं ब्रूमः ।
तव सुपयोधरदर्शनमिति यस्माद्गौरि नीलकण्ठोऽयम् ॥ १ ॥
 
देवी–आर्या गीयते ।
तच्छ्रुत्वा लक्ष्मणा नाम सखी प्राह — न केवलं गीयते स्तूयतेः च ।'
श्रीनिवासः – सद्वृत्तेयं गीतिः ।
लक्ष्मणा – देवीस्तनद्वयीव ।
श्रीनिवासः – (समन्दहासम्) अनन्तरागमनोहरया देवीस्तनद्वय्या
परिमितरागा किमित्युपमीयते गीतिः ।
देवी – (साभ्यसूयमिव ।) इयं लक्ष्मणा खलु जानाति कलहं सलक्षणम् ।
श्रीनिवासः – देवि, कुतस्ताम्यसि । तानि परिहासवचनानि कुसु-
मानि ।
देवी – हुं । कुसुमानि सुसुमनानि वानवसरे प्रयुक्तानि तान्येव किं
न शरजालानि ।
 
हिंसिते त्रिषु' इति । प्रतिपालनं रक्षणं मार्गनिरीक्षणं च । 'वृन्दारकानीकप्रति-
पाल्यमानरथः' इति भूपरामायणे । लोकेति । 'निदानं त्वादिकारणम्' इत्य-
मरः । मेघः, मयूरः । इति कारणकथनप्रकारः । स्तनः शिव इति तत्त्वार्थः ।
'महेश्वरे मयूरे च' इत्यारभ्य 'नीलकण्ठशब्दः' इति लिङ्गाभट्टः ॥ १ ॥ आर्या
वृत्तमेदः, पार्वती च । वृत्तं पद्ये वर्तुलं च । 'वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढ़नि-
स्तले' इत्यमरः । कलहं प्रसिद्धम् । सलक्षणं जानाति । 'हंसस्य योषिद्धरटा
सारस्य तु लक्ष्मणा' इत्यमरः । कलहंसः तलक्षणमिति च। सारसकलहंसयोः
पक्षित्वेन साम्यात् लक्ष्मणा कलहंसलक्षणं जानातीत्युक्तम् । कुसुमानि पुष्पाणि।