śrīnivāsacampū /162
This page has been fully proofread once and needs a second look.
धरादेवी – तेन किं फलम् ।
पद्मावती – रतिं विना किमन्यत् ।
धरादेवी — भूस्वीकृतिदाक्षिण्यमिति किं न भणसि ।
पद्मावती – रक्षितमर्यादया न स्पष्टमुक्तम् ।
अत्रान्तरे स श्रीनिवासो वराहस्तमेव देशं प्राप्तः प्राह – 'वत्स वा-
सुदेव, वृषाकारः कश्चिद्दैत्यः श्यामाकक्षेत्रदूषक इति श्रुतम् । अतो
योद्धुमिच्छामि ।
श्रीनिवासः–वसुंधरारमण, जरतोऽपि देवस्याद्यापि अतनुयुद्धस्पृहा
न विरमति ।
वराहः - वत्स, वसुधारागो दुप्परिहारः ।
श्रीनिवासः - तर्हि किरिचक्रं प्रेषय ।
वराहः——सहस्रारं चक्रमेव प्रेषयामि ।
श्रीनिवास :-- अहमपि देवस्य सहायो भवितुमुत्सहें जराशिथिल -
तसंधिबन्धावयवस्य ।
वराहः - (विहाय ५) कृतं कृतमतिसाहसेन । येयं हिरण्याक्षनियोधन-
सहायभूता साहाय्यं करिष्यति धरणीकुचभारादपि गुरुतरी गदा, त्वं तु
वसुधां पद्मावतीं च ममागमनं च प्रतिपालयंस्तिष्ठेति प्रचलितः
भिन्नं पदम् । 'कुण्ठो मन्दः क्रियासु यः' इत्यमरः । इत्याकूतम् । 'वैकुण्ठो
नारायणः' इति बाह्यार्थः । स्पृशति निन्दति । 'पटलं छदिः' इत्यमरः । 'न ना
क्रोडं भुजान्तरम्' इत्यमरः । इत्याकूतम् । 'क्रोडो भूदारः' इति बाह्यार्थः।
रतिः सुरतम् । पक्षे-आसक्तिः । भूर्धरादेवी । पक्षे - भूमिः । श्यामाका धान्य-
भेदाः । क्षेत्र केदारम् । 'पुंनपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु' इत्यमरः ।
जरतो वृद्धस्य । अतनुयुद्धं मदनयुद्धम् । पक्षे अनल्पयुद्धम् । भूम्यनुराग इत्या-
कूतम् । भूदेव्यनुराग इति दैवाज्जातोऽर्थः । हास्यरसः । किरयः कोलाः । चक्रं
सैन्यम् । सहस्रारं सुदर्शनम् । कृतं कृतमलमलम् । 'कृतं युगेऽलमर्थे च विहिते