2023-09-09 04:17:26 by jayusudindra

This page has been fully proofread once and needs a second look.

इत्याश्वास्य सशिरःकम्पमघटितघटनापटीयसीं नियतिमभिनन्द्य तया
सह मृदुलां शय्यां सुकविकाव्य इव प्रविवेश ।
 
इति श्रीमद्वेङ्कटाध्वरिमहाकवीन्द्रकृतौ श्रीनिवासविलास-
चम्प्वामुत्तरभागे तृतीयोल्लासः ।
 
चतुर्थोल्लासः ।
 
एकदा तु वेङ्कटवराहकलत्रं धरादेवी खामिसरस्तीरे हसन्ती प्राह-
'वासु पद्मावति, कलितपत्तनस्थितिरभिनवतयास्मद्विहारस्थलीं भूधरं वि-
लोक्य चित्तजातकुतूहलेनाक्रान्तेव वर्तसे । '
पद्मावती – (स्वगतम् ।) अहो परिहासपरिपाटी वसुमतीदेव्याः ।
( प्रकाशम् ।) देवि धरे, इयं कादम्बिनीश्यामला व्यक्तिस्तरलयति मे
मानसम् ।
धरादेवी – सत्यं वदसि पीनपयोधरमहिमायम् ।
पद्मावती — धरित्रि, राजहंसविहाराभावान्न शोभते वेलेयम् ।
धरादेवी – सखि, वैकुण्ठः क्व गतः सुन्दरि, ते भर्ता ।
पद्मावती - (स्वगतम् ।) देवं श्रीनिवासमपि पृशति । इतः परमा-
र्यमर्यादा पटले स्थाप्या । (प्रकाशम् ।) अयि वसुधे, इदानीमेव युष्मत्क्रो-
डदर्शनार्थं गतः ।
 
शय्या प्रसिद्धा । 'शय्येत्याहुः पदार्थानां घटना च परस्परम्' इति सरखती--
कण्ठाभरणे ॥ इति श्रीधरणीधरविरचितायां श्रीनिवास विलासचम्पूटीकायामु
त्तरभागे तृतीय उल्लासः ॥
वासु बाले । 'बाला स्याद्वासूः' इत्यमरः । अस्मद्विहारस्थलीं अस्मत्सुरत-
योग्यम् । भूधरं वराहदेवम् । चित्तजातः काम इत्याकूतम् । विहरणस्थानं
पर्वतम्, हृदयोत्पन्नमिति बाह्यार्थः । 'कादम्बिनी मेघमाला' इत्यमरः । तद्व-
च्छ्यामला व्यक्तिः पदार्थः कृष्ण इत्याकूतम् । पक्षिभेद इति बाह्यार्थः । वै इति