śrīnivāsacampū /160
This page has been fully proofread once and needs a second look.
कमलिनी – यावत्रुट्यति तावत्कर्षणं नोचितम् ।
देवी – उभयत्रापि तव स्थितिः ।
पुनः किंनर:-
'घटयति वियोगिचक्रं तनुते नितरां हि कुवलयोद्बोधम् ।
किमयं महिमा रात्रेर्यद्वा चरितं निशान्तकालस्य ॥ १७ ॥
कमलिनी - तर्हि प्रबोधकाल: पद्मिनीनाम् ।
केतकी–न केवलं स्थावराणाम्, किंतु जङ्गमानां च ।
देवी सापराधेवाकुला कुलनक्षत्रमालं म्लायच्चन्द्रमुखं गगनमपश्यत् ।
श्रीनिवासोऽपि तद्देहम् ।
ततश्च श्रीनिवासेऽप्यसहमानमीनकेतनावेगेन देव्यां प्रसारयति
पाणिं कमलिनी प्राह - देवि,
जृम्भत्केसरमालो मुग्धे सारङ्गनिर्वृतिनिदानम् ।
भवतीं गृहीतुमिच्छत्येष हरिः कोऽत्र शरणं ते ॥ १८ ॥
देवी – (सभयम् ।) आर्यपुत्र, त्रायस्व माम् । हरिर्गृहीतुमिच्छति ।
( इत्यालिलिङ्गे ।)
श्रीनिवासः—मा भैर्वियन्नृपालतनये ।
पक्षे - समीचीनानन्दध्वनिः । वाग्रसाः ॥ १६ ॥ अस्थिरान्तरश्चपलान्तःकरणः ।
पक्षे - असारान्तःप्रदेशः । घटयतीति । विप्रयुक्तजनकदम्बम् । पक्षे - वियो-
गिकोकम् । कुवलयं पुष्पम् । प्रबोधो विकासः । पक्षे भूमण्डलम् । निद्रा-
भावः ॥ १७ ॥ कमलिनीनां विकाससमयः । वनिताभेदानां प्रकृष्टज्ञानकालः ।
कुपिता अपि ता अङ्गीकृतसुरता भवन्तीति भावः ॥ जृम्भदिति । हरिः
कृष्णः । पक्षे–सिंहः । केसरपुष्पहारः । पक्षे-सटापरम्परा । 'सुखनाशौ च
'निर्वृती' इति ॥ १८ ॥ 'आर्यपुत्रेति संबोध्यः पतिः पत्नीजनेन तु' इति भरतः ॥