2023-08-31 05:57:29 by jayusudindra

This page has been fully proofread once and needs a second look.

किं बहुना,
विधुः संपदि चापेऽसौ सोमस्तारापतिर्गिरि ।
तस्मादस्मिन्महीपाले राजत्वं राजते सदा ॥ ८ ॥
 
किं च,
धनुर्विद्यावतां श्रेयाञ्ज्योतिषां योंऽशुमानिव ।
यशसा यस्य भाति स्म द्वितारानाथवज्जगत् ॥ ९ ॥
 
यस्य प्रकृतयो वश्या इन्द्रियाणीव चेतसः ।
नयेन तस्य विद्येव शुशुभे तेन मेदिनी ॥ १० ॥
 
पुरी यस्य जनैः पूर्णा जना गुणगणैरिव ।
हया यस्य जवैर्युक्ताः सपक्षा इव मारुताः ॥ ११ ॥
 
भूमेरकृष्टपच्यत्वाद्विषां निःशेषितत्वतः ।
यस्मिन्राजनि जानीमो ज्याकृष्टिनैव विद्यते ॥ १२ ॥
 
प्रजाभूत्यर्थमेवास्य धृतिश्चापकलत्रयोः ।
संख्योल्लसन्तो जानन्ति तद्विग्रहसुलक्षणम् ॥ १३ ॥
 
वेणी स्रोतो निशा रात्री रतिः कामनितम्बिनी ।
रोहितं यद्रिपुस्त्रीणामृजु शक्रशरासनम् ॥ १४ ॥
 
किं च, यश्च सत्तिलकतया चित्रकामितसौन्दर्यः । सद्वलयभूषिततया
 
किसलयः । पक्षे सङ्गः । विषमं निम्नोन्नतम् । पल्लवो विटः । किं बहुनेति ।
विधुर्विष्णुः । सोमः शिवः । तारापतिर्गुरुः । राजत्वं भूपत्वमिति तत्त्वार्थः ।
चमत्कारार्थस्तु –राजा चन्द्रः । अत्र चन्द्रवाचकबहुशब्दलाभः । 'त्रिपुरघ्नो
धनुष्मताम्' इति श्रीभागवतम् । किं चेति । श्रेयान् श्रेष्ठः । द्विविधचन्द्रयुक्तः।
प्रकृतयो मन्त्रिणः । अकृष्टपच्यत्वात्कर्षणं विना फलितत्वात् । 'अकृष्टपच्या तस्या-
सीत्सप्तद्वीपवती महीं' इति भागवतम् । ज्या भूमिर्मौर्वी च । प्रजानां लोकानां भूतिः
संपत् । पुत्राणामुत्पत्त्यर्थं च । संख्या ज्ञानं क्लीबे युद्धं च । 'विग्रहः समराङ्गयोः'
इति धरणिः । वेणी प्रवाहः कचरचनामेदश्च । निशा हरिद्रा । रत्तिः सुरतम् ।
रोहितं कुङ्कुमम् । अनेन रिपुस्त्रीणां वैधव्यमुक्तं भवति । तिलकचित्रकयोर्वलयक