śrīnivāsacampū /159
This page has been fully proofread once and needs a second look.
श्रीनिवासः -
सर्वभूभृत्स्मयहरे जृम्भच्चक्रश्रियान्विते ।
मयि स्तनद्वये चाद्य नेत्रान्तः प्रसरत्यहो ॥ १४ ॥
देवी अवनतवदना आसीत् ।
श्रीनिवासः -
सुरोहितललामाढ्यं राजवृन्दजयावहम् ।
अधः करोषि सुरते कस्मान्मामिव ते मुखम् ॥ १५ ॥
देवी – उन्मस्तकितकोपावेशम् । त्वां सुरते अधः करोतु सा राधा ।
श्रीनिवासः -
हंहो त्वमेव हि सदानन्दघोषमनोहरा ।
गोरसैः सुखदा पद्मावति सा राधिका मता ॥ १६ ॥
देवी — (स्वगतम् ।) अस्थिरान्तरस्यास्य वेणोरिव मधुरा गिरो बहिः
प्रसरन्ति ।
सर्वेति । भूभृद्राजा पर्वतश्च । स्मयो गर्वः । चक्रं सुदर्शनम् । पुमान्कोकः ।
नेत्रान्तः कटाक्षः, वस्त्राञ्चलम् ॥ १४ ॥ सुरोहितेति । रोहितललामं कुङ्कु-
मतिलकम् । पक्षे रोहितललाम मत्स्यध्वजो मदनः । 'रोहितं कुङ्कुमे रक्ते ॠजु-
शक्रशरासने । पुंसि स्यान्मीनमृगयोर्भेदे' इति रत्नकोषः । चन्द्रवृन्दम् । पक्षे
राजवृन्दम् । मुखमधः करोषि अवनमयसि अनुन्मुखीकरोषि । पक्षे तिरस्क
रोषि । शोभना रतिरासक्तिर्यस्याः सा तत्संबोधनं हे सुरते इति श्रीनिवासाभि-
प्रायः । सुरते निधुवने मामधः करोषि अनुर्ध्वीकरोषि । उपरिसुरतासक्तासीति
भावः । इति देव्यभिप्रायः । अत उन्मस्तकितेत्युक्तम् ॥ १५ ॥ हूंहो इति ।
हो अहो । 'हंहो चेतः प्रकृतिरपरा' इति काशीदेशामरक (?) प्रकारः । सा
प्रसिद्धा राधिका त्वमेवेति चमत्कारार्थः । सारा स्थिरांशभूता अधिका चेति
तत्त्वार्थः ॥ सदेति भिन्नं पदम् नन्दघोषः नन्दवज्रः, गोरसा दध्यादयः ।