śrīnivāsacampū /158
This page has been fully proofread once and needs a second look.
स्पृशान्यहीनां मालां च त्यज कोपमणूदरे ।
शब्दविन्यासदोषो मे नाहमद्यापराधिकः ॥ ११ ॥
कमलिनी ~ (स्वगतम् ।) अत एव देवी कुप्यति । (प्रकाशम् 1 )
देवि, शृणुमस्तावत् । किंनरो गायति ।
किंनर:
सश्रीकं मानितं देवासुरसंघैर्घनप्रभम् ।
मानगम्यमहो हन्त
कमलिनी — देव, श्रवणातिथीकृतः खल्वयं पादोनः श्लोकः ।
श्रीनिवासः सखि, जानाम्यष्टदलपद्मबन्धनिबन्धनमेतत्पद्यम् ।
अस्य तुर्यः पादः
श्रीनिवास नमाम्यहम् ॥ १२ ॥
इति । किंच ।
अजहत्तालसौन्दर्यं सुरागश्रीयुतं मनः ।
गीतं हरति पद्माक्षि देवीस्तनयुगीव नः ॥ १३ ॥
( देवी वस्त्रान्तेन गृहितकुचातिष्ठत् । )
कलय न जानीहीति ॥ १० ॥ स्पृशामीति । अहीनां सर्पाणां मालां पङ्क्तिम् ।
आपराधिकः अपराधवानिति देवाभिप्रायः । हीना नेत्यहीना तादृशीं मालां
हारम् । 'माला पङ्क्तौ पुष्पादिदामनि' इति भास्करः । अपगता राधिका यस्मा-
त्सोपराधिकः । राधिकां न त्यजामीति भावः । इति देव्यभिप्रायः ॥ ११ ॥
अत एव राधिकापरित्यागादेव । 'यत्तु सर्वजनश्राव्यं तत्प्रकाशम्' इति भरतः ॥
सश्रीकमिति । अहो हन्तेति संतोषे । पादेनोनो हीनः पादोनः ॥ १२ ॥
'तालः कालक्रियामानम् । पक्षे तालफलम् । रागो भैरव्यादिः । पक्षे सुराणा,
<flag></flag> सुमेरुः । गीतं मनोहरतीत्यन्वयः । यथोचितं लिङ्गव्यत्ययः ॥ १३ ॥