śrīnivāsacampū /156
This page has been fully proofread once and needs a second look.
देवी (खगतम् ।) अहो, अद्यापि न विस्मरति राधाविलासो देवस्य ।
जाराणां मानसं नित्यं पांसुलामनुधावति ।
शततारापतिश्चन्द्रस्तारामन्यामकामयत् ॥ ६ ॥
त्वं तत्त्वमान्तरं शश्वत्वं वै प्राणा बहिश्चराः ।
इत्युक्त्वैव पुनः कृष्णो यद्वा दैवमदक्षिणम् ॥ ७ ॥
(प्रकाशम् ।) धार्ष्ट्यमवलम्ब्य । किमत्रागमने कारणम् ।
श्रीनिवासः – सदङ्गनाशरणद्वारमिति ।
देवी - अङ्ग – (इति साम्रेडितम् ।) नेदं युद्धस्थानम् ।
श्रीनिवासः – न केवलं स्वल्पयुद्धस्थानम्, किंतु अतनुयुद्धस्थान-
मेतत् ।
देवी – ( सत्रपानन्दं कपाटमुद्धाट्यातिष्ठत् । )
ततश्च श्रीनिवासे प्रवेष्टुमिच्छति सति प्रसार्य बाहुं तिर्यग्द्वारदेशे
( स्थित्वा ।) कमलिनी -
मा गच्छ शोणिमा नेत्रे पद्मावत्या विराजते ।
श्रीनिवासः-
रजःस्त्रातासु नारीषु प्रायेणैवं भविष्यति ॥ ८ ॥
इत्यमरः । इति देवाशयः । राधा गोपीति देव्यभिप्रायः ॥ जाराणामिति ।
पांसुलाऽसती । शततारा शतसंख्याकनक्षत्राणि । अन्यां तारां नक्षत्रान्तरमिति
स्वोक्तनिर्वाहः । शततारा नक्षत्रभेदः । तारा गुरुपत्नीति तत्त्वार्थः ॥ ६ ॥ त्वं
तत्त्वमिति । आन्तरं तत्त्वम् । अन्तःकरणम् । एवंविधव्यापारप्रवृत्तः ।
अन्यासक्ते भर्तरि स्त्रीणामतीव दुःखमिति भावः । पक्षान्तरमाह -यद्वेति ।
अदक्षिणं प्रतिकूलम् । नात्र कृष्णस्यापराधः । दैवमेव पूर्वं तथोक्त्वेदानीमेवं
करोतीति भावः ॥ ७ ॥ अङ्गनायाः शरणं गृहम् । पक्षे - अङ्गस्य शरीरस्य नाशो
यस्मात्स तादृशो यो रणो युद्धं तस्य द्वारम् । 'आम्रेडितं द्विस्त्रिरुतम्' इत्यमरः ।
अतनु अनल्पम् । पक्षे- अतनुर्मदनः ॥ मा गच्छ शोणिमेति । नेत्रे नयने