2023-09-08 15:14:52 by jayusudindra

This page has been fully proofread once and needs a second look.

श्रीनिवासः-
स को वा
देवी – ( सलज्जम् ।) सखि कमलिनि, न जानात्ययं देवस्य नामापि
त्रिभुवनरक्षाधौरेयस्य ।
कमलिनी –भण भण । शृणुमस्तावद्वक्तव्यसीमाम् ।
 
यन्मकरन्दरसौधो यच्च तरङ्गः सुधासमुद्रस्य ।
यच्चैन्दवकरसारो यच्चासारो मृगाक्षि गोस्तन्याः ॥ ४ ॥
 
श्रीनिवासः – (स्वगतम् ।) परोक्षेऽपि प्रणयंभूयिष्ठानि कमलिनीवच-
नानि शीतलयन्ति मे मानसम् ।
देवी-
कंसारिः
श्रीनिवासः-
सोऽहमस्मि
ततश्च ।
इत्युदितवति हरौ सा जहासोत्पलाक्षी ॥५॥
 
कमलिनी – देव, एतावत्कालपर्यन्तं क्व भवान् ।
 
श्रीनिवासः – क्षम्यताम् । तत्र तत्र वनलताकुञ्जेषु राधोत्सवमनुभ-
वता मया यापितोऽर्धरात्रः ।
 
रुडान्मास्तु भयम् । तथापि मद्रमणः पुनस्त्वां शिक्षयेदिति भावः । 'द्वीपं रम-
णकं हित्वा हृदमेनं समाश्रितः । यद्भयात्स सुपर्णस्त्वां नाद्यान्मत्पादला-
ञ्छितम् ॥ इत्यर्थः । 'तञ्चित्रताण्डवविरुग्णफणातपत्रे -' इति च । 'नरेन्द्रो
वार्तिके राज्ञि विषवैद्येऽपि' इति विश्वः । 'वेदभेदे गुप्तिवादे मन्त्रः' इत्यमरः ।
'तुरङ्गगरुडौ तार्क्ष्यौ' इत्यमरः ॥ शृणुमस्तावत् इत्यत्र हास्यरसः । इन्दोरय-
मैन्दवः । करसारः किरणस्थिरांश: । 'आसारो वेगवद्वर्षे' इति 'मृद्धीका गोस्तनी
द्राक्षा' इत्यमरः । अन्यत्स्पष्टम् ॥ ५ ॥ राधो वैशाखः । 'वैशाखे माघवो राधः'