2023-09-08 15:08:37 by jayusudindra

This page has been fully proofread once and needs a second look.

श्रीनिवासः-
ललने श्रीनिवासः
देवी – ( समन्दहासम् ।)
सुमन्त्री
श्लाघ्यायां
श्रीनिवासः -
हास्मि कृष्णः शशिमुखि
देवी – ( सावंहेलम् ।)
कमये तार्क्ष्यजातावृतायाम्।
श्रीनिवासः -
मद्भोगे देहि दृष्टिं
देवी – ( सरोषम् ।)
मम रमणपदाघातभग्नः
 
'राजभवनद्वाराभिसरणमकाले तव नोचितमिति वक्ति देवी' इति ज्ञात्वा प्राहं-
श्रीनिवास इति । लक्ष्मीनिवास इत्यर्थः । श्रीशब्दस्य 'विषम्' इत्यर्थान्तरं
परिकल्प्य देव्याह – सुमन्त्रीति । शोभनसर्पमन्त्रज्ञा अत्र सन्ति, विषनि
वासमपि सर्पं बध्नन्तीति भावः । श्रीनिवासस्तु 'शोभनराजमन्त्रिणोऽत्र सन्ति,
ते त्वां शिक्षयन्ति' इति । देवी वक्तीत्याह – कृष्ण इति । वासुदेवः । कृष्ण-
शब्दस्य 'नीलवर्णः' इत्यर्थान्तरं परिकल्प्य देव्याह - तार्क्ष्येति । तार्क्ष्यजातो
गरुडः । कालियनाम्नः कृष्णवर्णस्य विषनिवासस्य सर्पस्य तव महामन्त्रज्ञविष-
वैद्यभयाभावेऽपि गरुडस्त्वां मारयतीति भावः । 'सुपर्णपक्षाभिहतः कालियोऽ -
तीव विह्वलः' इति श्रीभागवतम् । श्रीनिवासस्तु– 'तार्क्ष्यजातोऽश्वसंघः' ।
'कृपया राजमन्त्रिभिस्त्यक्तमप्यश्वचारास्त्वां न त्यजन्ति इति देवी वक्ति' इत्या-
ह-मद्भोगे देहीति । भोगः सुखम् । भोगशब्दस्य 'फणा' इत्यर्थान्तरं
कल्पयित्वा देव्याह मम रमणेति । त्वत्फणाया भगवत्पदलाञ्छितत्वाद्ग-