śrīnivāsacampū /153
This page has been fully proofread once and needs a second look.
कमलिनी — दुःसहः खलु विप्रयोगः सिंहमध्यानां मध्यानाम् । यल्ल-
ज्जापि द्वितीयो मदन इव पीडयति ।
केतकी–कृपणानां चेति वक्तव्यम् ।
मालती - किं पुनर्द्विजराजयोगः ।
अत्रान्तरे द्वारपालिका मल्लिकागत्य – 'देवि, वर्धसे । यद्देवः श्री-
निवासः प्राप्तोऽयं भवनद्वारे तिष्ठति ।'
( सर्वाः सचकितमुत्थायान्तःप्रविश्य बद्धकपाटा अतिष्ठन् । ततश्च देवोऽप्य-
न्तःपुरकपाटमासाद्य-) 'द्वाः ।'
देवी–मन्दं मन्दम् । सखि कमलिनि, तूष्णीं तिष्ठ । छलाम्येनम् ।
मालती — एवमेव कर्तव्यं एकद्विवारम् । येन देवोऽपि ज्ञास्यति
ज्ञातव्यम् ।
देवी-
कस्त्वं
श्रीनिवासः-
चक्री
देवी – ( साचर्यम् ।)
नरेन्द्रालयभुवि
चैत्रिको मधुः' इत्यमरः । मध्या वनिताभेदः । 'समानलज्जामदना मध्या'
इति रसमञ्जरी ॥ विप्रयोगो वियोगः । पक्षे - द्विजेन संगतिः । द्विजराजश्चन्द्रः
द्विजश्रेष्टश्च ॥ द्वाः द्वारम् । उद्धाटय इति शेषः । उक्तशब्दस्यार्थान्तरं परि-
कल्प्योत्तरकथनं छलः ॥ कस्त्वमिति । चक्री चक्रवान् । नारायण इत्यर्थः ।
चक्रिशब्दस्यार्थान्तरं परिकल्प्य देव्याह – नरेन्द्रेति । नरेन्द्रो व्यालग्राही ।
'व्यालग्राहिशब्दात्कथं न बिमेषीति भावः । श्रीनिवासस्तु 'देव्याश्छलोक्तिभङ्गी-
मनवगत्य नरेन्द्रशब्दस्य राजार्थत्वमभिप्रेत्य ममागमनपरिज्ञानालाभावादन्यशङ्कया