2023-09-08 14:44:23 by jayusudindra

This page has been fully proofread once and needs a second look.

श्रीनिवासः श्रुत्वा सस्मितं कलानिधिकवये सर्वज्ञचूडामणिख्यातिम्,
नीलकण्ठस्य सकलायाः पर्वतभुवः स्वामित्वम्, कमलिन्यै सर्वतोमुख-
श्रियम्, अन्येभ्योऽपि यथाकामं वित्तं वितीर्य प्रमदागारं प्रविवेश ॥
इति श्रीमद्वेङ्कटाध्वरिमहाकवीन्द्रकृतौ श्रीनिवासविलास-
चम्प्वामुत्तरभागे द्वितीयोल्लासः ॥
 
तृतीयोल्लासः ।
 
अन्यदा तु क्वापि चिरयति निजनायके श्रीनिवासे देवी पद्मावती
कमलिनीमाह — 'सखि,
अस्तं प्रयाति वसुमानुदयं प्राप्नोत्ययं पुनर्वसुमान् ।
कमलिनी – विहस्य । किं ततः ।
देवी ——–सव्रीडम् । न किमपि ।
केतकी— देवि, कथय कथय ।
कमलिनी – हूं ।
अपरं किं कथनीयं ज्ञातं चित्ते मुकुन्दोऽस्याः ॥ १ ॥
 
देवी – कथमिव ।
कमलिनी -
पद्मश्रीनेत्रयुगे शङ्खरमा सा गले च दन्तेषु ।
कुन्दश्रियो यतः स्युर्ज्ञातं चित्ते मुकुन्दोऽस्याः ॥ २ ॥
 
ललाभं च ललाम च ॥ इति रुद्रः ॥ १३ ॥ कलानिधिश्चन्द्रः । सर्वज्ञचूडाम
णिरिति चमत्कारार्थः । तत्त्वार्थस्तु स्पष्टः । नीलकण्ठः शिवः । सकलायाः
कलाभिः सहितायाः । पर्वतभुवः पार्वत्याः । पक्षे समस्तायाः शेषाचलपृथ्व्याः ।
कमलिनी पद्मम् । सर्वतोमुखश्रीः जलसंपत् । पक्षे - कमलिनीति काचित् ।
विश्वतोमुखसंपत् ॥ इति श्रीधरणीघरविरचितायां श्रीनिवास विलासचम्पूटी काया-
मुत्तरभागे द्वितीय उल्लासः ॥
 
अन्यदा तु । अस्तं तन्नामकं पर्वतम् । 'अस्तः क्षिप्ते पश्चिमद्रौ इति हैमः ।
वसुमान्सूर्यः । हुमित्यनादरे । पद्मेति । शङ्खादयश्चत्वारो निधिमेदाः । अर्था-