śrīnivāsacampū /150
This page has been fully proofread once and needs a second look.
इत्येवं यान्त्यां कस्यांचिद्वेलायामुदितचन्द्रमण्डलमवेक्ष्य 'अयमपरः कला-
निधिर्विपुलानन्दं तनोति द्विजराजः' इति भणति वेलावेदके कमलिनी
प्राह -
उल्लसितगोकुलश्री राधोज्वलरूप एष शिशिरकरः ।
चरति हरे तव चर्यां तस्माद्युक्तं विधुत्वमेतस्य ॥ ११ ॥
नीलकण्ठः-
कमलिनी कलानिधिगुणवर्णने परेति विस्मयः ।
हंसः - नैतच्चित्रम् ।
पद्मिनीनां परामोदो जृम्भत्यपि पयोधरे ।
श्रीनिवासे समीपस्थे द्वेषादेः क्व नु संभवः ॥ १२॥
अत्रान्तरे वेलावेदकः--
रसकल्लोलवान्मीनललामाढ्यः सरित्पतिः ।
देव चन्द्रोदये पद्मावतीवाञ्छेव वर्धते ॥ १३ ॥
भरणेन सहितः । षडूर्मिरहितः ॥ १० ॥ विपुला भूमिः । पक्षे पुमान् बहुल: ।
द्विजराजश्चन्द्रो विप्रश्रेष्ठश्च । उल्लुसितेति । गोकुलं किरणसमूहः । पक्षे - नन्द-
स्य । राधा नक्षत्रभेदः । पक्षे - गोपीभेदः । 'विधुर्विष्णौ चन्द्रमसि' इत्यमरः
॥ ११ ॥ कमलिनी पद्मम् । कलानिधिश्चन्द्रः, इत्यतो विस्मय इत्युक्तम् । तत्त्वा-
र्थस्तु स्पष्टः । पद्मिनीनामिति । मेघे जृम्भत्यपि कमलानां परिमल इति
चित्रम् । वर्षाकाले कमलानामभावात् । तथाप्येतन्न चित्रम् । तत्र हेतुमाह -
श्रीनिवास इति । यद्यपि पद्ममेघयोर्द्वेष एव तथापि श्रीनिवाससांनिध्यात्स
नास्तीति भावः । 'तृष्णे जृम्भसि पापकर्मपिशुने' इति भर्तृहरिप्रयोगः । इति
चमत्कारार्थः । तत्त्वार्थस्तु - पद्मिन्यो वनिताभेदाः । आमोदो हर्षः । पयोधरः
स्तनः ॥ १२ ॥ रस इति । रसो जलम् । पक्षे - प्रीतिः । यथोचितं लिङ्ग-
व्यत्ययः । मीनललामानि मत्स्यश्रेष्ठास्तिमिंगिलादयः । पक्षे मीनललामो मत्स्य-
ध्वजः कामः । 'प्रधानध्वजशृङ्गेषु पुण्ड्रवालधिलक्ष्मसु । भूषावाजिप्रभावेषु