2023-08-30 15:31:41 by jayusudindra
This page has been fully proofread once and needs a second look.
अपि च, सुमनःसु पतितद्विजः पूषा । उग्रकराभियोगभाक् कमलव-
र्गश्च । सञ्चक्रशब्दवाच्येष्वरसंगतशोभमायुधं सूर्ययोगहृष्टं कोकमाहुः ।
कलोल्लसितेषु कलङ्की चन्द्रः पक्षपाती पिकश्च ।
किं च, श्रीमत्सरस्थितिः क्रीडोद्यानेषु कण्ठेषु च न लोकेषु ।
अलङ्कारोचितत्वं सीतायाः पद्यानां च न जनानाम् । सततमहीशमदो
जलदकालः सर्पराजे न राजसु ।
किं च, अपदानि शत्रुवृन्दानि पद्यकदम्बं च । स पद्यानि कविनि-
कुरुम्बाणि शत्रुजालं च । अनुगतमृडानि योगिचक्राणि स्त्रीजातं च । पवि-
त्राणि द्विजकुलानि शस्त्रं च । नालानि नालीवृन्दानि गजयूथं च । भानि
नक्षत्राणि जनकदम्बं च ।
सत्सङ्गरहितभावं विषमहितत्वं च पल्लवरुचिं च ।
सैन्ये सरसि रमण्यो जानन्त्याम्रदुजालेषु ॥ ७ ॥
जिनः । अपि चेति । सुमनःसु विद्वत्सु देवेषु पुष्पेषु चेत्यर्थत्रयम् । पतित-
द्विजो भ्रष्टब्राह्मणो गतदन्तश्च । 'पूष्णश्चापात<flag></flag>न्तान्कालिङ्गस्य यथा बलः' इति
भागवतम् । उग्रकरः क्रूरबलि: सूर्यश्च । सच्चक्रं सज्जनवृन्दं समीचीनचक्रवा-
कश्चेत्यर्थत्रयम् । अरसमिति गतशोभमिति च च्छेदः । पक्षे अराणि चक्रधाराः।
सूरिभिरयोगः । पक्षे सूर्यो हेलिः । कला विद्या चन्द्रस्य षोडशभागः कलो
ध्वनिभेदश्चेत्यर्थत्रयम् । लङ्कायां रोचितत्वं प्रकाशितत्वं कारा बन्धनगृहमित्यर्थ-
त्रयम् । सततं मही भूमिस्तस्याः शमदः शान्तिप्रदः । पक्षे सततमिति च्छेदः ।
अहीशस्य मदो गर्वः । पक्षे महीशः पृथ्वीश इति गर्वः । किं चेति । अप-
दानि स्थानरहितानि । पक्षे 'अपदानं कर्म वृत्तम्' इत्यमरः । तदस्यास्तीति
तथोक्तम् । इत्येकवचनबहुवचनश्लेषः । एवमग्रेऽपि । पद्यं श्लोकः । पक्षे समी-
चीनेन पदा यानि यानयुक्तम् । मृडः शिवः । भृडानी पार्वती । पवित्राणि
पावनानि । पक्षे पविवद्वज्रवत् त्राणि रक्षणयुक्तम् । 'नालं नाली पद्मदण्डे
इति सुधा । पक्षे आलानं गजबन्धनम् । विशृङ्खलमित्यर्थः । मत्तत्वात् । भानि
भशब्दवाच्यानि । पक्षे भानम् । सदिति । संगरः । विषं जलम् । पल्लवः