2023-09-08 10:51:37 by jayusudindra

This page has been fully proofread once and needs a second look.

नीलकण्ठः-
'विघटितचक्रो विगलितहरिमण्डल एष वीतनेत्रसुखः ।
सायंतनकालस्ते रिपुरथचर्यां चरत्यये देव ॥ ८ ॥
 
किं च ।
हरन्सच्चक्रसंतोषं तमो विपुलयन्बहु ।
देव सायंतनः कालो भाति दुष्कविकाव्यवत् ॥ ९ ॥'
 
अत्रान्तरे द्वारपालेन सविनयं प्रवेशितः कलानिधिनामा कविरागत्य
दक्षिणपाणिमुन्नमय्य प्राह -
'पद्मोल्लासभृता सवीरवलयश्लाघ्यः सुरेखाञ्चितः
पाणिस्ते वरदानवारिमहितानन्दं विधत्ते सदा ।
साधर्म्यं विवरीवरीति भवतानूर्मिर्भवान्सोर्मिक-
स्तद्वैधर्म्यमपि प्रकाशयति स श्रीश्रीनिवास प्रभो ॥ १० ॥'
 
विघटितेति ॥ चक्रश्चक्रवाकः । पक्षे - रथाङ्गम् । हरिमण्डलं सूर्यबिम्बम् ।
पक्षे - अश्वकदम्बम् । नेत्रं लोचनम् । पक्षे - पुमान्नेता । 'नेत्रं नेतरि भेद्यवत्
इति ॥ ८ ॥ हरन्निति । समीचीनचक्रवाकसंतोषम् । पक्षे सज्जनकदम्बह-
र्षम् । तमोऽन्धकारम् । पक्षे अज्ञानं तमोगुणं वा । 'तमांसि गुणतिमिरसैंहि-
केयाः' इति ॥ ९ ॥ पद्मोल्लासभृदिति । ते पाणिः भवता त्वया साधर्म्यं
साम्यं विवरीवरीति विस्तारयति । पद्मेत्यादिविशेषणचतुष्टयं पाणेः श्रीनिवासस्य
च ज्ञेयम् । पद्मं कमलम् । पक्षे स्त्री पद्मा । वीरवलयं वीरकङ्कणम् । पक्षे-
शूरसमूहः । रेखाः प्रसिद्धाः । पक्षे-रलयोरभेदात् लेखा देवाः । अञ्चितः
पूजितः । दानवारि वितरणोदकम् ।पक्षे-दानवानामरिरिति महितानन्दम् ।
न केवलं साधर्म्यं किं तु वैधर्म्यं च प्रकाशयति । सपाणिः सोर्मिको भवान्
श्रीनिवासः । अनूर्मिरिति शब्दतो वैधर्म्यम् । तत्त्वार्थस्तु ऊर्मिकयाङ्गुल्या-