śrīnivāsacampū /148
This page has been fully proofread once and needs a second look.
ततः कमलिनी प्राह — 'सुकवे, 'जम्बूवज्जलबिन्दुवज्जलजवज्जम्बा-
लवज्जालवत्' इतीयं समस्या पूरणीया' इति । ततो नीलकण्ठकविः -
वर्षालंकरणं तनोति नितरां यज्जीवनं प्राणिनां
सूर्यानन्दकरं विसारि भुवने यद्धीवरोल्लासकम् ।
भात्युच्चैर्यशसां कदम्बकमिदं श्री श्रीनिवासप्रभो -
र्जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥ ६ ॥
श्रीनिवासः - महाकवे नीलकण्ठ, सर्वतः श्लाघ्या ते वाणी । अ-
पीदानींतनं कालं वर्णय ।
नीलकण्ठः-
भवान्हि सद्वेषपराङ्गनाशं चक्रे लसद्वेषपराङ्गनाशम् ।
द्विर्द्वादशेत्यक्षरसावधानो भूयान्मदीयाक्षरसावधानः ॥ ७॥
श्रीनिवासः - अवहितोऽस्मि ।
वर्षालंकरणमिति । यशः कदम्बमुपमेयम्, जम्ब्बा दिपञ्चकमुपमानम् ।
वर्षेत्यादि पञ्चकं क्रमेण समानधर्मः । वर्षो भरतखण्डमिति यशःपक्षे । (यदा)
वर्षाकालस्तदा जम्बूफलानि भवन्तीति जम्बूपक्षे । 'वर्षोऽस्त्री भरतादौ च जम्बु-
द्वीपाब्दवृष्टिषु । वर्षा काले स्त्रियां भूम्नि' इति सुधा । जीवनं प्राण: । जलबि-
न्दुपक्षे-उदकमेव । सूरयो ज्ञानिनः । पद्मपक्षे - सूर्यः प्रसिद्धः । भुवने लोके ।
विसारि प्रसारि । जम्बालपक्षे - जले विसारि । 'जम्बालः पङ्कः' इत्यमरः । धिया
वराः श्रेष्ठा विद्वांसः । जालपक्षे- दाशाः । जालं शणसूत्रम् ॥ ६ ॥ भवा-
निति । सद्वेषा द्वेषसहिता ये परे शत्रवस्तेषां शरीरनाशम् । लसन्वेषो यस्याः
सा लसद्वेषा तादृशी या पराङ्गना राधादिस्तस्याः शं सुखं चक्रे । द्विर्द्वादशेति
पाशकलिखितसंख्याभेदः । इतिशब्दः प्रकारार्थकः । अक्षरसे द्यूतक्रीडारसे
अवधानं यस्य स तथोक्तः । मदीयानि यान्यक्षराणि तत्र सावधानः ॥ ७ ॥