2023-09-08 10:41:02 by jayusudindra

This page has been fully proofread once and needs a second look.

दूरीकृतकलिर्यस्मात्तस्मादस्यविभीतकः ।
न चापि मदनासक्तो युक्ता ते ह्यवनीपता ॥ २ ॥
 
सरलप्रियोऽस्मि शम्युल्लासी पुन्नागसुप्रियश्चापि ।
सत्सुमनोवृत्तिरपि प्रभुवर्य ततोऽवनीपता मेऽभूत् ॥ ३ ॥
 
अथ तत्र हंसकविः प्राह — देव, अहमेवं जानामि ।
भूदेवेन्द्रः कविः शश्वद्राजमानगुणोत्तरः ।
अयं त्वत्समतां धत्ते देवमानवशंकरः ॥ ४ ॥
 
ततः शुकोऽवदत् --
श्रीनिवासाम्बुजमुखविकासकपदावलिः ।
अनन्तोल्लासमाधत्ते हंस एवेति विद्महे ॥ ५ ॥
 
शब्दतो ज्ञेया ॥ १ ॥ ममावनीपत्वमेव कुत इत्यत आह - दूरीकृतेति । कलिः,
बिभीतकः, मदनश्च वृक्षभेदः । वनीं पातीति वनीपः स न भवतीति अवनीपः,
इति स्वोक्तनिर्वाहः । कलियुगभेदः । अविभीतको निर्भयः । मयि अनासक्त
इति प्रभुचित्तानुसरणप्रकारः ॥ २ ॥ स्वस्य वनीपत्वमुपपादयति – सरलेति ।
सरलादित्रयं वृक्षभेदः । 'वनीपको याचनकः' इत्यमरः । सती सुमनोवृत्तिर्वि-
द्वद्वृत्तिर्यस्य । सुमनोभिः पुष्पैः । वनीपता वनपालकत्वमिति चमत्कारार्थम्
तत्त्वार्थस्तु–अवकः, शमयुक्तः, पुरुषश्रेष्ठः । 'सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठा-
र्थंगोचराः' इत्यमरः । 'वृत्तिर्वितरणे जीव्ये कौशिक्याद्यास्तु वृत्तयः' इति ॥ ३ ॥
भूदेवेन्द्र इति । अयं कविः । भूदेवानां ब्राह्मणानामिन्द्रः श्रेष्ठः । श्रीनिवा-
सपक्षे वसुधापुरंदरः । कविः काव्यकरः । पक्षे राजा । 'कविः काव्यकरे राज्ञि
इति । उत्तरं प्रतिवचनम् । पक्षे उत्तरः श्रेष्ठः । मानेन प्रमाणेन वशंकरः ।
देव, इति संबोधनम् । पक्षे - देवानां मानवानां च सुखकरः । 'उत्तरं प्रतिवाक्ये
स्यादूर्ध्वोदीच्योत्तमेऽन्यवत्' इति ॥ ४ ॥ श्रीनिवासेति । हंसः सूर्यः ।
लक्ष्मीनिवासयोग्यं यत्पद्मं तस्य वदनं तद्विकासिका पदानां किरणानामावलिर्यस्य
स तथोक्त इति । अनन्तं गमनम् । पक्षे हंसः कविभेदः । अन्यत्स्पष्टम् ॥ ५ ॥