2023-09-08 10:35:16 by jayusudindra

This page has been fully proofread once and needs a second look.

अथ वा महानुभाव इति गृणामि चेत्कृशानुभावं वहतीत्याक्रन्दते
शत्रुवर्गः । विद्वत्सु प्रीतियुक्त इति चेत्कलावत्कोटयस्त्वत्कीर्त्या तिर-
स्कृताः । सुन्दरोऽसीति चेत्प्राग्जन्मनि कांचन सुन्दरतां संहरता त्वयै-
वापराद्धम् ।
गौतमशास्त्रप्रक्रियासु कुशल इति चेद्दुःखद्वेषप्रयत्नाधर्मान्न जानासि ।
किंच । प्रथमं स्वीकरोषि गुणम्, न द्रव्यम् । शब्दराद्धान्तचतुरोऽसीति
चेत्, तद्धितविचारं न करोषि इति अभक्तानां बादः । वेदान्तशास्त्र -
प्रवीणोऽसीति चेत्, वेदनयाक्रान्तो न क्वापि भवान् । मदनागमहृष्टो-
ऽसीति चेत्, तदा विद्वन्निकुरम्बपरिपालनदीक्षाधौरेयतापिशुनकरगत-
वीरवलयेक्षणं वितर दृष्टिम् । अस्तु वा यं कंचन गुणमादाय दर्शन-
योग्यता । तथापि नावयोर्विरुद्धधर्माक्रान्तयोरुचितः समागमः ।
 
निरतो यशःप्रसारे भवान्यतो वै शयप्रसारेऽहम् ।
क्वाहं क्व भवान्राजन्नवनीपस्त्वं वनीपोऽहम् ॥ १ ॥
 
प्रतिपन्थित्वं समानत्वम् । 'देशीयदेश्यरिष्वाभाः सोदराद्या इवार्थकाः' इति कल्प-
लता । पक्षान्तरमाह-अथ वेति । कृशानुभावं कृश प्रभावमिति निन्दा । अ
ग्नित्वमिति तत्त्वम् । एवमग्रेऽपि । कलावन्तो विद्यावन्तः । पक्षे चन्द्राः । सुन्द-
रता सौन्दर्यम् । 'पक्षे - सुन्दो नाम दैत्यस्तस्मिन्रता आरक्ता ताटका । 'ताट-
काख्यां सुन्दः किलैनां परिणीय' इति भोजरामायणे । दुःखादयः प्रसिद्धाः ।
पक्षे तर्कशास्त्रप्रसिद्धाः । तद्धितं शब्दशास्त्रप्रसिद्धम् । पक्षे - तेषामभक्तानां हितम् ।
वेद आम्रायः । नयो नीतिः । पक्षे - वेदनया नतया, इति तृतीया । मदनागमो
मन्मथशास्त्रम् । पक्षे समानागमः । अर्धाङ्गीकारेणाह-अस्तु वेति । यशः
कीर्तिः । शयः पाणिः । अवनीपो राजा । वनीपो याचक इति तत्त्वम् । अत्र
पूर्वार्धे 'यशः शयः' इति वर्णव्यत्यासकथनेन विरुद्धधर्माक्रान्तिः । उत्तरार्धे च