2023-09-08 10:29:51 by jayusudindra

This page has been fully proofread once and needs a second look.

ण्डरीकया लालितकमलाशयया स्वसमानचर्यया देव्या पद्मावत्या सह
कुत्रचित्सरसि विहृत्य तत्तटभुवि अक्षक्रीडारतस्य श्रीनिवासस्य नयन
सरणिमुपाजगाम कविकदम्बम् ।
तच्च प्रतिनन्दितागमनं यथायोग्यं उपाविशत् ।
तत्र कंचनाभिनवं द्विजं विलोक्य देवः पप्रच्छ – 'कवे नीलकण्ठ,
किमर्थमागमनं भवतः' इति ।
सोऽपि विहस्याब्रवीत् [^१] – 'देव, अहमपि तदेव चिन्तयन्नागमननि-
दानं कलयामि ।
तथा हि — 'भाग्यवन्तं भवन्तं द्रष्टुमागतोऽस्मि' इति साधारणस-
रणिः । याचितुमिति खलाघवप्रकटनम् । मद्विद्याप्रकटनार्थमित्यात्मस्तु-
तिमहापातकम् । ग्रामं गच्छंस्तृणं स्पृशतीति वदति प्रकृतविरुद्धालापः ।
इन्द्रचन्द्रसमानस्य तव दर्शनादैहिकामुष्मिकफलमिति बन्दिचरणानुचर-
णप्रसङ्गः । अस्तु वा यः कश्चन हेतुः । तथापि दर्शनयोग्यगुणकत्वं
देवे न पश्यामि । दानधारार्द्रीकृतकरत्वं त्वद्दन्तावलेष्वपि । सदाचरणर-
त्नभूषितत्वं तव वनिताजनेष्वपि । सूर्यप्रतिपन्थित्वं तव प्रतापेऽपि ।
 
वाकः । चेति भिन्नं पदम् । रणमुखानुरक्ता ये राजहंसा राजश्रेष्ठास्तेषां मिथुन-
विघटनं स्त्रीपुरुषवियोजनम् । पुंसो हननेनेति भावः । पक्षे चरणे पादे मुखे च
रक्ताः शोणाः पक्षिभेदाः । लीलार्थमिति भावः । कवयः काव्यकराः, जलपक्षि-
णश्च । 'कं शिरोऽम्बुनोः' इत्यमरः । 'पक्षी च विनिर्गदितः' इति । 'सुरमत्स्याव-
निमिषौ' इत्यमरः । पुण्डरीको ऋषिभेदः । पक्षे - क्लीबे सिताम्भोजं च । कमला-
शयो लक्ष्मीमानसम् । पक्षे- जलाधारः । 'आशयः स्यादभिप्राये मानसाधारयो-
रपि' इति । दानधाराद्रीकृतकरत्वं वितरणोदकधाराद्रीकृतपाणित्वमिति चमत्का-
रार्थः । मदोदकधारार्द्रीकृतशुण्डादण्डत्वमिति तत्त्वार्थः । 'करो वर्षोपले रश्मौ
पाणौ प्रत्यायशुण्डयोः' इति । एवमग्रेऽपि । सदाचरणं सदाचारः तदेव रत्नम् ।
पक्षे-आचरणं पादपर्यन्तं रत्नैर्भूषितत्वम् । सूरीणामप्रतिपन्थित्वम् । पक्षे - सूर्य-
 
[^१.] 'वदत्' क.ख.