2023-09-08 10:23:26 by jayusudindra

This page has been fully proofread once and needs a second look.

ततश्चातिभूमिं गतः संतोषेण बहुधा संमान्य महाकवी
विना सुरमणीं देवः सर्वाण्याभरणान्यदात् ।
तथा पद्मावती ताभ्यां ददौ खं नायकं विना ॥ १७ ॥
 
ततस्तयोर्यथास्थानं गतयोर्हंसशुकयोर्महाकव्योर्देवोऽपि पद्मावत्या स-
हान्तःपुरमभजत् ।
 
जृम्भन्नवरसोल्लासा नानाबन्धमनोहरा ।
मदीयकवितेवेयं क्रीडा रेजे तदा तयोः ॥ १८ ॥
 
इति श्रीमद्वेङ्कटाध्वरिमहाकवीन्द्रकृतौ श्रीनिवासविलासचम्पूकाव्ये
उत्तरभागे प्रथम उल्लासः ॥ १ ॥
 
द्वितीयोल्लासः ।
 
अन्यदा तु क्वडिच्चक्रग्रहणव्यग्रया चरणमुखरक्तराजहंसमिथुनविघट-
नपरया मानितकविनिकरया अनिमिषकदम्बदत्तकटाक्षया अनुगृहीतपु-
 
तार्क्ष्यः गरुडः । पतति शक्त्यभावात् । पक्षे उड्डीयते । नागः शेषः । विषमश्च
हितश्च । पक्षे विषेण महितः ॥ १६ ॥ विनेति । सुरमणीं शोभनवनितां पद्मा-
वतीं विना पद्मावत्या अप्याभरणनिर्विशेषत्वादिति भावः ।स्वं निजं नायकं पतिं
श्रीनिवासमिति चमत्कारार्थः । तत्त्वार्थस्तु - सुरमणीं कौस्तुभम् । मणीशब्दः ।
'मन्दाक्षरमणीयन्त्रितम्' इत्यनन्तभट्टः । नायकं हारमध्यमणिम् । माङ्गल्यसूत्र-
स्वमिति भावः । 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वः ॥ १७ ॥
स्थानमतिक्रम्य यथास्थानं स्वस्थानमिति यावत् । बन्धः कामशास्त्रप्रसिद्धः ।
पक्षे- पद्मच्छत्रादिः ॥ १८ ॥ कृतिर्ग्रन्थः ॥ इति श्रीधरणीधरविरचितायां श्रीनि-
वासविलासचम्पूटीकायामुत्तरभागे प्रथम उच्छ्वासः ॥
अन्यदा त्विति । 'स्वसमानचर्यया देव्या' इत्यनेन 'चक्र -' इत्यादि विशे
ष<flag></flag>ट्कं पद्मावत्याः श्रीनिवासस्य चेति ज्ञेयम् । चक्रं सुदर्शनम्, पक्षे-पुमांश्चक्र-