2023-09-08 10:15:06 by jayusudindra

This page has been fully proofread once and needs a second look.

द्वितीयः-
प्रतिकलमनुभुक्तरसो वाहिन्यनुकूलगमनकृतचित्तः ।
चरति भवानिव तेऽरिर्भूभृत्कटकेषु वेङ्कटक्ष्मेश ॥ १३ ॥
 
श्रीनिवासः -
चक्रं वा श्रियमपि वा तार्क्ष्यं वा शेषनागराजं वा ।
दद्यां सत्कविवर्यौ तुष्टेन हृदा न चात्र संदेहः ॥ १४ ॥
 
[^२] साहित्यसारमञ्जूषा कमलिनी प्राह -
मधुरालापद्विजकुलसुपक्षपातैकसुन्दरप्रकृतिः।
भूभृत्सुपन्नगाद्विर्दृष्टः श्रीश्रीनिवासभूपश्च ॥ १५ ॥
 
तच्छ्रुत्वा द्वावपि -
अरिरूपं चक्रं श्रीरधिकमलस्था पतत्ययं तार्क्ष्यः ।
नागो विषमहितोऽयं दययालं श्रीनिवासभूप तव ॥ १६ ॥
 
तत्त्वार्थः । एवमग्रेऽपि । चापश्रियं धनुर्लक्ष्मीम् । पक्षे - चेति भिक्षं पदम् । अप
श्रियमपगतसंपदम् । ज्या मौर्वी । पक्ष-भूमिः । अपकीर्तियुक्तस्तवारी रुदन्कृषि-
व्यापारं करोतीति भावः ॥ १२ ॥ प्रतिकलं प्रतिक्षणम् । अरिपक्षे रसो जलम् ।
श्रीनिवासपक्षे तु-शृङ्गारादिः । रसा भूमिर्वा । वाहिनी नदी । पक्षे सेना । 'तर
ङ्गिण्यां च सेनायां वाहिनी' इति । भूभृत्कटकेषु पर्वतनितम्बेषु । पक्षे-राजन्य-
सैन्येषु । 'भूभृद्भूमिधरे नृपे इत्यमरः ॥ १३ ॥ चक्रं राष्ट्रमिति श्रीनिवासाभि-
प्रायः । सुदर्शनमिति ज्ञात्रोरभिप्रायः । अत एवास्योत्तरश्लोके 'अरिरूपं चक्रम्
इत्याद्युच्यते । एवमग्रेऽपि । श्रियं संपदम् । पक्षे - रमाम् । तार्क्ष्यमश्वम् । पक्षे-
गरुडम् । श्वेतनागराजं गजेन्द्रम् । पक्षे शेषम् ॥ १४ ॥ भूभृत्सु पर्वतेषु राजसु
चेत्यर्थद्वयम् । द्विजकुलं पक्षिसमूहः, ब्राह्मणवंशश्च पक्षपातः पक्षाभ्यां पतनं
प्रसिद्धश्च ॥ १५ ॥ चक्रं सुदर्शनम् । अरिरूपं शत्रुस्वरूपमिति निन्दा, अरयुक्त-
स्वरूपमिति तत्त्वार्थः । एवमग्रेऽपि । श्रीः रमा । अधिकं यन्मलं तत्रस्थाः ।
पक्षे - अधिशब्दोऽधिकार्थकः । ततश्च
अधिका कमलवसतिः पद्मवासो यस्याः ।
 
[^१.] 'सदा' क.
[^२.] 'ततश्च' ख.
 
.