śrīnivāsacampū /141
This page has been fully proofread once and needs a second look.
कमलिनी – (सस्मितम् ।) अहो चतुरता कवितायाः । यत्काञ्ची
काशी च युगपद्वर्णिता ।
अत्रान्तरे कंचन भृङ्गं सितसरोजमलंकुर्वाणं दृष्ट्वा श्रीनिवासः प्राह -
नदन्किं वक्ति सारङ्गः पुण्डरीकसमीपगः ।
इति । तच्छ्रुत्वा [^१]द्वयोरेकः – देव,
निकटस्थेऽभयोऽस्म्यद्य सारङ्गवरदे त्वयि ॥ ८ ॥
द्वितीयः-
वरदस्तद्युगलयोः श्रीनिवास भवानिति ।
कमलिनी-
केशैरास्येन च हृता स्त्रिया ते संपदावयोः ॥ ९ ॥
रिण इति भावः । पक्षे-यत्र काश्याम् । संस्थितिर्मरणम् । मालती गङ्गा ।
काश्यां मृतानां शिवसारूप्यमिति काशीखण्डे । 'मालती च मलापहा । विष्णु-
पादाब्जसंभूता गङ्गा' इति पुराणम् । 'उत् प्रकाशे वियोगे च' इति । भोगिनां
धनिनां भोगाः सुखानि । 'भोगो धने [सुखे] पुंसि' इति सुधा । करे स्थिता
इति लोकोक्तिः । स्वाधीना इति भावः । पक्षे - सर्पाणां फणाः । अब्जकलिका
पद्मकोरकः । पक्षे चान्द्रक्षारकम् । 'चूडोत्तंसितचन्द्रचारुकलिका' इति प्राची -
नप्रयोगः ॥ ७ ॥ नदन्निति । 'सितसरोजं, भृङ्गः' इति श्रीनिवासाभिप्रायं
निगूह्य, एकः कविः 'व्याघ्रः, कुरङ्गः' इत्यर्थ परिकल्प्योत्तरं वक्ति–निकट-
स्थ इति । त्वयि निकटस्थे समीपवर्तिनि सति अहमभयोऽस्मीति । वक्तीति
शेषः । तत्र हेतुगर्भविशेषणमाह - सारङ्गेति । कुरङ्गवरद इति चमत्कारः ।
गजेन्द्रवरद इति तत्त्वार्थः । 'सारङ्गश्चातके भृङ्गे कुरङ्गे च मतङ्गजे' इत्यभिधान-
माला । 'व्याघ्रेऽपि पुण्डरीको ना' इत्यमरः ॥ ८ ॥ 'सारङ्गो गजेन्द्रः, पुण्ड-
रोकः ऋषिभेदः' इति पूर्वार्धमभिप्रेत्य द्वितीयः कविरुत्तरं वक्ति-वरद इति ।
तधुगलयोर्गजेन्द्रपुण्डरीकयोः । गजेन्द्रवरदः पुण्डरीकवरदश्च भवानिति [भावः ] ।
श्रीनिवासाभिप्रायानुसारेण कमलिनी वक्ति केक्षैरिति । अर्थः स्पष्टः ॥ ९ ॥
[^१.] 'द्वयोर्मंध्ये एकः' ख.